________________
મૂલ સંસ્કૃત અને ગુજરાતી અનુવાદ
૨૫૧
―――
કરે છે. નિરસનના આ પ્રકારો અગણિત છે. તેમની કોઈ નિયત સંખ્યા હોઈ શકે નહિ તેમ છતાં અક્ષપાદ મુનિએ પોતાના ન્યાયસૂત્રમાં દર્શાવેલી દિશા અનુસાર જાત્યુત્તરો (१) અર્થાત્ જાતિઓ ચોવીસ જણાવવામાં આવે છે. તેમનાં નામ આ મુજબ છે साधर्म्यसमा, (२) वैधर्म्यसभा, (3) उत्र्षसमा, (४) अपर्षसमा, ( 4 ) वएर्यसभा, (६) अवर्यसभा, (७) विऽस्यसभा, (८) साध्यसमा, (८) प्राप्तिसमा, (१०) अप्राप्तिसमा, (११) प्रसंगसभा, (१२) प्रतिदृष्टान्तसभा, ( 13 ) अनुत्पत्तिसमा, (१४) संशयसभा, (१५) प्ररासमा, (१६) अहेतुसमा, (१७) अर्थापत्तिसमा, (१८) अविशेषसमा, (१८) उपपत्तिसमा, (२०) उपलब्धिसभा, (२१) अनुपलब्धिसमा, (२२) नित्यसभा, (२३) अनित्यसमा, अने (२४) कार्यसमा
64. तत्र साधर्म्येण प्रत्यवस्थानं साधर्म्यसमा जातिः । यथा अनित्यः शब्दः कृतकत्वात् घटवदिति प्रयोगे कृते साधर्म्यप्रयोगेणैव प्रत्यवस्थानम्नित्यः शब्दो निरवयवत्वादाकाशवत् । न चास्ति विशेषहेतुर्घटसाधर्म्यात् कृतकत्वादनित्यः शब्दो न पुनराकाशसाधर्म्यान्निरवयवत्वान्नित्य इति १ । वैधर्म्येण प्रत्यवस्थानं वैधर्म्यसमा जातिः । यथा अनित्यः शब्दः कृतकत्वादित्यत्रैव प्रयोगे स एव प्रतिहेतुर्वैधर्म्येण प्रयुज्यते — नित्यः शब्दो निरवयवत्वात्; अनित्यं हि सावयवं दृष्टं घटादीति । न चास्ति विशेषहेतुर्घटसाधर्म्यात्कृतकत्वादनित्यः शब्दो न पुनस्तद्वैधर्म्यान्निरवयवत्वान्नित्य इति २ । उत्कर्षापकर्षाभ्यां प्रत्यवस्थानमुत्कर्षापकर्षसमे जाती । तत्रैव प्रयोगे दृष्टान्तधर्मं कञ्चित् साध्यधर्मिण्यापादयन्नुत्कर्षसमां जातिं प्रयुङ्क्ते - यदि घटवत् कृतकत्वादनित्यः शब्दो घटवदेव मूर्तोऽपि भवतु । न चेन्मूर्तो घटवदनित्योऽपि मा भूदिति शब्दे धर्मान्तरोत्कर्षमापादयति ३ । अपकर्षस्तु घटः कृतकः सन्न श्रावणो दृष्ट एवं शब्दोप्यस्तु । नो चेद् घटवदनित्योऽपि मा भूदिति शब्दे श्रावणत्वधर्ममपकर्षतीति ४ । वर्ण्यावर्ण्याभ्यां प्रत्यवस्थानं वर्ण्यावर्ण्यसमे जाती । ख्यापनीयो वर्ण्यस्तद्विपरीतोऽवर्ण्यः । तावेतौ वर्ण्यावण्य साध्यदृष्टान्तधर्मौ विपर्यस्यन् वर्ण्यवर्ण्यसमे जाती प्रयुङ्क्ते - यथाविधः शब्दधर्मः कृतकत्वादिर्न तादृग्घटधर्मो यादग्घटधर्मो न तादृक् शब्दधर्म इति ५-६ । धर्मान्तरविकल्पेन प्रत्यवस्थानं विकल्पसमा जातिः । यथा कृतकं किञ्चिन्मृदु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org