________________
મૂલ સંસ્કૃત અને ગુજરાતી અનુવાદ
૧૫૩ येन चाभेदस्तेनाप्यभेदश्च भेदश्चेति सङ्करः ४ । येन रूपेण भेदस्तेनाभेदो येनाभेदस्तेन भेद इति व्यतिकरः ५ । भेदाभेदात्मकत्वे च वस्तुनो विविक्तेनाकारेण निश्चेतुमशक्तेः संशय: ६ । ततश्चाप्रतिपत्तिः ७ इति न विषयव्यवस्था ८ । नैवम्; प्रतीयमाने वस्तुनि विरोधस्यासम्भवात् । यत्सन्निधाने यो नोपलभ्यते स तस्य विरोधीति निश्चीयते । उपलभ्यमाने च वस्तुनि को विरोधगन्धावकाशः ? । नीलानीलयोरपि यद्येकत्रोपलम्भोऽस्ति तदा नास्ति विरोधः । एकत्र चित्रपटीज्ञाने सौगतैर्नीलानीलयोविरोधानभ्युपगमात्, योगैश्चैकस्य चित्रस्य रूपस्याभ्युपगमात्, एकस्यैव च पटादेश्चलाचलरक्तारक्तावृतानावृतादिविरुद्धधर्माणामुपलब्धेः प्रकृते को विरोधशङ्कावकाश: ? । एतेन वैयधिकरण्यदोषोऽप्यपास्तः; तयोरेकाधिकरणत्वेन प्रागुक्तयुक्तिदिशा प्रतीतेः । यदप्यनवस्थानं दूषणमुपन्यस्तम् तदप्यनेकान्तवादिमतानभिज्ञेनैव, तन्मतं हि द्रव्यपर्यायात्मके वस्तुनि द्रव्यपर्यायावेव भेदः भेदध्वनिना तयोरेवाभिधानात्, द्रव्यरूपेणाभेद: इति द्रव्यमेवाभेदः एकानेकात्मकत्वाद्वस्तुनः । यौ च सङ्कव्यतिकरौ तौ मेचकज्ञाननिदर्शनेन सामान्यविशेषदृष्टान्तेन च परिहृतौ । अथ तत्र तथाप्रतिभासः समाधानम्; परस्यापि तदेवास्तु प्रतिभासस्यापक्षपातित्वात् । निर्णीते चार्थे संशयोऽपि न युक्तः, तस्य सकम्पप्रतिपत्तिरूपत्वादकम्पप्रतिपत्तौ दुर्घटत्वात् । प्रतिपन्ने च वस्तुन्यप्रतिपत्तिरिति साहसम् । उपलब्ध्यभिधानादनुपलम्भोऽपि न सिद्धस्ततो नाभाव इति दृष्टेष्टाविरुद्धं द्रव्यपर्यायात्मकं वस्त्विति ॥३२॥ ___130. ht-वस्तुने द्रव्य-पर्यायात्म मानवा छतi ugu मुली, संत એમની એમ જ રહે છે, ટળતી નથી. સ્યાદ્વાદી જૈનો દ્રવ્ય અને પર્યાયના એકાન્ત ભેદ અને એકાન્ત અભેદનો નિરાસ કરીને કથંચિત ભેદભેદનો સ્વીકાર કરે છે પરંતુ તે યુક્તિસંગત નથી કારણ કે તે વિરોધ વગેરે દોષોથી દૂષિત છે.
(૧) વિરોધ–વિધિ-નિષેધરૂપ અભેદ-ભેદ બન્નેનું એક જ વસ્તુમાં હોવું સંભવતું નથી, જેમ કે એક જ વસ્તુ નીલ અને અનીલ બન્ને હોવી સંભવતી નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org