________________
३७८
આગમિક વ્યાખ્યાઓ
કર્યો છે. વિવરણનું ગ્રંથમાન ૩૮૦૦ શ્લોકપ્રમાણ છે. ગ્રંથસમાપ્તિની તિથિ વિ.સં.૧૧૨૦ની વિજયાદશમી છે. લેખનસમાપ્તિનું સ્થાન અહિલપાટક નગર छे. अंतिम सोडो खा छे :
नमः श्रीवर्धमानाय, श्रीपार्श्वप्रभवे नमः |
नमः श्रीमत्सरस्वत्यै, सहायेभ्यो नमो नमः ॥ १ ॥ इह हि गमनिकार्थं यन्मया व्यूह्योक्तं, किमपि समयहीनं तद्विशोध्यं सुधीभिः । नहि भवति विधेया सर्वथाऽस्मिन्नुपेक्षा, दयितजिनमतानां तायिनां चाङ्गिवर्गे ॥ २ ॥ परेषां दुर्लक्षा भवति हि विपक्षाः स्फुटमिदं, विशेषाद् वृद्धानामतुलवचनज्ञानमहसाम् । निराम्नायाधीभिः पुनरतितरां मादृशजनैस्ततः, शास्त्रार्थे मे वचनमनघं दुर्लभमिह ॥ ३ ॥ ततः सिद्धान्ततत्त्वज्ञैः, स्वयमूह्यः प्रयत्नतः । न पुनरस्मदाख्यात, एव ग्राह्यो नियोगतः ॥ ४ ॥ तथापि मास्तु मे पापं, सङ्घमत्युपजीवनात् । वृद्धन्यायानुसारित्वाद्धितार्थं च प्रवृत्तितः ॥ ५ ॥ तथाहि किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ ६॥ यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान् । प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादिसम्बंधि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो, निः सम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७ ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तबन्धोरपि बुद्धिसागर इति ख्यातस्य सुरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसलक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org