________________
દ્રોણસૂરિકૃત ઓઘનિયુક્તિ-વૃત્તિ
૩૬૫ _ 'प्रकान्तोऽयमावश्यकानुयोगः तत्र च सामायिकाध्ययनमनुवर्तते, तस्य च चत्वार्यनुयोगद्वाराणि भवन्ति महापुरस्येव, तद्यथा-उपक्रम: निक्षेपः अनुगम: नय इति, एतेषां चाध्ययनादौ उपन्यासे इत्थं च क्रमोपन्यासे प्रयोजनमभिहितम् । तत्रोपक्रमनिक्षेपावुक्ती, अधुनाऽनुगमावसर:, स च द्विधा-निर्युक्त्यनुगमः सूत्रानुगमश्च, तत्र नियुक्त्यनुगमस्त्रेधा निक्षेपोपोद्घातसूत्रस्पर्शनियुक्त्यनुगमभेदात्, तत्र निक्षेपनियुक्त्यनुगमोऽनुगतो वक्ष्यमाणश्च, उपोद्घातनिर्युक्त्यनुगमस्त्वाभ्यां द्वाभ्यां द्वारगाथाभ्यामनुगन्तव्यः द्वारगाथाद्वयस्य-'उद्देसे निद्देसे य२ इत्यादि । अस्य च द्वारगाथाद्वयस्य समुदायार्थोऽभिहितः, अधुनाऽवयवार्थोऽनुवर्तते, तत्रापि कालद्वारावयवार्थः, तत्प्रतिपादनार्थं चेदं प्रतिद्वारगाथासूत्रमुपन्यस्तम् – 'दव्वे अद्ध अदाज्य उवक्कम'3 इत्यादि । अस्यापि समुदायार्थो व्याख्यातः साम्प्रतमवयवार्थः तत्राप्युपक्रमकालाभिधानार्थमिदं गाथासूत्रमाह - 'दुविहोवक्कमकालो सामायारी अहाउयं चेव । सामायारी तिविहा ओहे दसहा पयविभागे ॥११॥ तत्रोपक्रम इति कः शब्दार्थः ? उपक्रमणं उपक्रमः, उपशब्द: सामीप्ये' क्रमु पादविक्षेपे, उपेति सामीप्येन क्रमणं उपक्रमः-दूरस्थस्य समीपापादनमित्यर्थः, तत्रोपक्रमो द्विधा-सामाचार्युपक्रमकाल: यथायुष्कोपक्रमकालश्च, तत्र सामाचार्युपक्रमकालस्त्रिविधः ओघसामाचार्युपकमकालः दशधासामाचार्युपक्रमकालः पदविभागसामाचार्युकमकालश्च । तत्रौघसामाचारीओघनियुक्तिः....... । तत्रौघसामाचारी तावदभिधीयते..... ।'
वृत्तिमा भने स्थणे सायार्य इदानीमेनामेव गाथां भाष्यकृद् व्याख्यानयति', 'इदानी भाष्यकारो गाथाद्वयं व्याख्यानयन्नाह'५ 'इदानीमेतदेव भाष्यकारो गाथाद्वयं व्याख्यानयन्नाह वगैरे शो साथे मायामोन व्याज्यान छ. प्रस्तुत સંસ્કરણમાં ભાષ્યની ગાથા-સંખ્યા ૩૨૨ છે તથા નિર્યુક્તિની ગાથા-સંખ્યા ૮૧૧ છે. આ રીતે નિર્યુક્તિ અને ભાષ્ય બંને મળીને ૧૧૩૩ ગાથાઓ છે.
१. आवश्यनियुक्ति, . १४०-१. 3. पृ. २०५.
२. मे४न, २L. ६६१. ४. पृ. २०८.
५. पृ. २१०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org