________________
६२६
प्रमेयकमलमार्तण्डे
८७ यथास्मिन् प्राणिनि व्याधि विशेषोस्ति
निरामयचेष्टानुपलब्धेः। ८८ अस्त्वत्र देहिनि दु.ख मिष्टसंयोगाभावात् । ८६ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानु
पलब्धेः। ६० परम्परया सम्भवत्साधनमत्रैवान्तर्भाव
नीयम् । ६१ अभूदत्र चक्रे शिवकः स्थासात् । १२ कार्य कार्यमविरुद्ध कार्योपलब्धौ। ६३ नास्त्यत्र गुहायाम् मृगक्रीडनं मृगारिसं. शब्दनात् कारणविरुद्धकार्य विरुद्ध कार्यो.. पलब्धौ यथा। ६४ व्युत्पन्न प्रयोगस्तु तथोपपत्त्याऽन्यथानुप
पत्त्यैव वा। ६५ अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्ते
धूमवत्त्वान्यथानुपपत्ते । ६६ हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते
सा च तावन्मात्रेण व्युत्पन्न रवधार्यते । ६७ तावता च साध्य सिद्धिः । १८ तेन पक्षस्तदाधार सूचनायोक्तः । ६६ प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः।। १०० सहज योग्यता संकेत वशाद्धि शब्दादयो
वस्तुप्रतिपत्ति हेतवः । १०१ यथा मेर्वादयः सन्ति ।।
अथ चतुर्थः परिच्छेदः १ सामान्यविशेषात्मा तदर्थो विषयः ।। २ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तरा
कारपरिहारावाप्तिस्थिति लक्षणपरिणा
मेनार्था क्रियोपपत्तेश्च । ३ सामान्यं द्वेधा, तिर्यगूलताभेदात् ।
४ सदृश परिणामस्तिर्यक्, खण्डमुण्डादिषु
गोत्ववत् । ५ परापरविवर्त्तव्यापि द्रव्य मूर्ध्वता मृदिव
स्थासादिषु । ६ विशेषश्च । ७ पर्यायव्यतिरेकभेदात् । ८ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः
पर्याया आत्मनि हर्ष विषादादिवत् । ६ अर्थान्तरगतो विसदृश परिणामो व्यतिरेको गोमहिषादिवत् ।
अथ पञ्चमः परिच्छेदः १ अज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् । २ प्रमाणादभिन्न भिन्नञ्च । ३ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्ते उपेक्षते चेति प्रतीते. ।
अथ षष्ठः परिच्छेदः १ ततोऽन्यत्तदाभासम् । २ अस्वसंविदितगृहीतार्थ दर्शन संशयादयः
प्रमाणाभासाः। ३ स्वविषयोपदर्शकत्वाभावात् । ४ पुरुषान्तर पूर्वार्थगच्छत्त ण स्पर्श स्थाणु
पुरुषादि ज्ञानवत् । ५ चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च । ६ अवैशये प्रत्यक्षं तदाभासं बौद्धस्या कस्मा
द्धमदर्शनाद्वह्निविज्ञानवत् । ७ वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य
करणज्ञानवत् । ८ अतस्मिस्तदिति ज्ञानं स्मरणाभासम्,
जिनदत्ते स देवदत्तो यथा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org