________________
૧૨
यथा यत् सत्, तद् द्रव्यं पर्यायो वेत्यादिः ॥ ७- २४ ॥
यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रैति स व्यवहाराभासः ॥ ७-२५ ॥ यथा चार्वाकदर्शनम् ॥७-२६ ॥
રત્નાકરાવતારિકા ભાગ-૩
पर्यायार्थिकश्चतुर्द्धा - ऋजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च । ७-२७।
ऋजु वर्तमानक्षणस्थायि पर्यायमात्रं प्राधान्यतः सूत्रयन्नभिप्राय ऋजुसूत्रः ॥ ७-२८॥ यथा सुखविवर्तः सम्प्रत्यस्तीत्यादिः ॥ ७-२९॥
सर्वथा द्रव्यापलापी तदाभासः ॥ ७-३०॥
यथा तथागतमतम् ॥७-३१॥
कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥७-३२॥
यथा - बभूव भवति भविष्यति सुमेरुरित्यादिः ॥ ७-३३ ॥ तद्भेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥ ७-३४ ॥
यथा बभूव भवति भविष्यति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात् तादृक्सिद्धान्यशब्दवदित्यादिः ॥ ७-३५ ॥
पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थं समभिरोहन् समभिरूढः ॥ ७-३६ ॥ इन्दनादिन्द्रः, शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्यादिषु यथा ॥ ७-३७॥ पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ ७-३८ ॥
यथेन्द्रः शक्रः पुरन्दर इत्यादयः शब्दाः भिन्नाभिधेया एव, भिन्नशब्दत्वाद् करिकुरङ्गतुरङ्गशब्दवदित्यादिः ॥७-३९॥
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः ॥ ७-४० ॥ यथेन्दनमनुभवन्निन्द्रः, शकनक्रियापरिणतः शक्रः, पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते
॥ ७-४१॥
क्रियाऽनाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपंस्तु तदाभासः । ७-४२ । यथा विशिष्ट चेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ७-४३ ॥
एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थनयाः ॥ ७-४४ ॥ शेषास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥ ७-४५॥ पूर्वः पूर्वो नयः प्रचुरगोचरः, परः परस्तु परिमितविषयः ॥ ७-४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org