SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ રત્નાકરાવતારિકા ભાગ-૩ परिच्छेद-७ नीयते येन श्रुताख्यप्रमाणविषयीकृतस्यार्थस्यांशस्तदितरांशौदासीन्यतः स प्रतिपत्तुरभिप्रायविशेषो नयः ॥७-१॥ स्वाभिप्रेतादशादितरांशापलापी पुनर्नयाभासः ॥७-२॥ स व्याससमासाभ्यां द्विप्रकारः ॥७-३॥ व्यासतोऽनेकविकल्पः ॥७-४॥ समासस्तु द्विभेदो द्रव्यार्थिकः पर्यायार्थिकश्च ॥७-५॥ आद्यो नैगमसङ्ग्रहव्यवहारभेदात् त्रेधा ॥७-६॥ धर्मयोर्धर्मिणोधर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥७-७॥ सच्चैतन्यमात्मनीति धर्मयोः ॥७-८॥ वस्तु पर्यायवद् द्रव्यमिति धर्मिणोः ॥७-९॥ क्षणमेकं सुखी विषयासक्तजीव इति धर्मधर्मिणोः ॥७-१०॥ धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः ॥७-११॥ यथात्मनि सत्त्वचैतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादिः ॥७-१२॥ . सामान्यमात्रग्राही परामर्शः संग्रहः ॥७-१३॥ अयमुभयविकल्प: परोऽपरश्च ॥७-१४॥ अशेषविशेषेष्वौदासीन्यं भजमानः शुद्धद्रव्यं सन्मात्रमभिमन्यमानः परसंग्रहः ॥७-१५॥ विश्वमेकं सदविशेषादिति यथा ॥७-१६॥ सत्ताऽद्वैतं स्वीकुर्वाणः सकलविशेषान्निराचक्षाणस्तदाभासः।७-१७। यथा सत्तैव तत्त्वं, ततः पृथग्भूतानां विशेषाणामदर्शनात् ।७-१८ । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भेदेषु गजनिमीलिकामवलम्बमानः पुनरपरसंग्रहः ॥७-१९॥ धर्माधर्माकाशकालपुद्गलजीवद्रव्याणामैक्यं द्रव्यत्वाभेदादित्यादिर्यथा ॥७-२०॥ द्रव्यत्वादिकं प्रतिजानानस्तविशेषान्निह्नवानस्तदाभासः ॥७-२१॥ यथा द्रव्यत्वमेव तत्त्वं, ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरित्यादिः ॥७-२२॥ संग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकमवहरणं येनाभिसन्धिना क्रियते स व्यवहारः ॥७-२३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001268
Book TitleRatnakaravatarika Part 3
Original Sutra AuthorVadidevsuri
AuthorKalyanbodhivijay
PublisherJain Dharm Prasaran Trust Surat
Publication Year2004
Total Pages444
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy