________________
રત્નાકરાવતારિકા
६७४
प्रमाणनयतत्त्वालोकस्य पञ्चमपरिच्छेदे
(मङ्गलाचरणम्)
वन्दामि पार्श्वनाथं तं, कल्पतरुसमं कलौ । शवेश्वराख्यतीर्थस्थं, परमवाञ्छितप्रदम् ॥१॥ स्मरामि श्रुतदेवीं तां, श्रुतज्ञानोपकारिकाम् । मरावजारिराजीष्ठां, श्रीहेमचन्द्रकारिताम् ॥२॥ आगमाख्यं परोक्षस्य पञ्चमभेदवर्णकम् । परिच्छेदं चतुर्थं हि, समाप्य वादवारिधिम् ॥३॥ प्रमेयमथ सामान्य-विशेषात्मकमुच्यते । पञ्चमे हि परिच्छेदे, वादबाहुल्यगुम्फिते ॥४॥ सामान्यं द्विविधं प्रोक्तं, तिर्यगुर्वाभिधानतः । एवं विशेषमप्युक्तं, गुणपर्यायभेदतः ॥५॥ भिन्नव्यक्तिषु तुल्या या, परिणतिस्तु दृश्यते । तिर्यक्सामान्यमुक्तं तत्, गौौरिति मतिर्यथा ॥६॥ पूर्वापरेषु पर्याये, - प्वेकत्वमुर्ध्वताभिधम् । स्यात्सामान्यं महाहार, मौलिषु काश्चनं यथा ॥७॥ सहभावी गुणः प्रोक्तः, क्रमभावी च पर्ययः । एतत्सर्वप्रमेयानां, स्वरुपं कथ्यतेऽधुना ॥८॥ बौद्धः क्षणिकवादित्वात्, सामान्यदर्शनेऽन्धधी:। यौग साङख्यादयो नित्य-त्वादन्यत्र पराङमुखः ॥९॥ परिच्छेदेऽत्र सर्वत्र, बौद्धयोगादिवादिनाम् । भज्यन्ते हि मता: सर्वे, ह्याजौ वाजिगजा: यथा ॥१०॥ तथ्यवाश्रवणे ज्ञानात, तीव्राज्ञानकदाग्रही। नश्येते क्षणमात्रं हि, रविकरात्तमो यथा ॥११॥ सर्वज्ञोक्तातिनिर्दोषाऽ नेकान्तवादपीयुषम् । पीत्वा हि वचनातीतं, स्याद्धर्षो वागगोचरः॥१२॥ तेनैवोत्साहितोऽत्राहं, ग्रन्थस्यास्य विवेचने । करोमि यत्नमेवात्रा, - शिषं वर्षन्तु सज्जना: ॥१३॥ ग्रन्थे काठिन्यबाहुल्ये, विविधवादवारिधौ। विघ्नवातं विनाश्यान्तं, यान्तु धैर्य धना जनाः ॥१४॥ छाझस्थ्यानुपयोगादि - भिरत्र क्षतिसम्भवः । क्षाम्यन्तु तं कृपां कृत्वा, परोपकारमज्जनाः ॥१५॥ अनुवादेन चानेन, प्राप्तप्रपुण्यसञ्चयात् । अस्तु तेषां हितं येषां, चित्तं मुक्तौ भवे तनुः ॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org