________________
દ્વિતીયપરિચ્છેદનું મંગલાચરણ
Jajn Education International
द्वितीय परिच्छेदस्य मङ्गलाचरणम् नमोऽस्तु श्रीवीतरागाय
ध्यात्वाऽर्हदादि सिद्धाद्यं, चक्रं नवपदात्मकम् । यद्ध्यानेन विलीयन्ते, विघ्नांस्तु क्षणमेव हि ॥ १ ॥ मत्स्मृतिपथमानीय, पवित्रितां सरस्वतीम् । प्रारप्स्ये ऽहं परिच्छेदं, नव्यं बह्वर्थगुम्फितम् ॥२॥ प्रत्यक्षादि प्रमाणानि, प्रोच्यन्तेऽस्मिन् प्रभेदतः । मिथ्यामतविकल्पास्तु, निहन्यन्ते पदे पदे ॥३॥ क्वचिद्मनोहरैः प्रासैः, विविधच्छन्दकैः क्वचिद् । क्वचिद् वादविवादैश्च क्वचित्त्रयोदशाक्षरैः ॥४॥
"
कृतिं कुर्वन्निहाभाति, कर्ताऽयं केलिकृद् यथा । वादिगजगणाव्याप्ते, सिंहो रणाङ्गणे यथा ॥ ५ ॥ श्रमणश्रमणीसङ्घ - साहाय्यसिद्धमेधया ( मेघसा ) । सुष्टुभूतमिदं कार्यं छेदनै गणितं यथा ॥६॥ तदुपकृद्गुणागारं नोपमेयं सुबुद्धिकैः । वक्तुमहं न शक्नोमि, ख-स्थिततारकानिव ॥७॥ तद्वचोभक्तिभावेन, प्रारब्धं स्वपरोपकृत् । कार्यं निरन्तरायेण, समाप्तिमेष्यतामिदम् ॥८॥ धैर्यं धृत्वा स्थिरीकृत्य, चित्तं त्यक्त्वैव वासनाम् । अध्येयोऽयं परिच्छेदः, न्यायनिपुणपण्डितैः ॥९॥ गुर्जरीयानुवादेन, सुगुणो क्रियते मया । प्रभुवचोऽनुवादो हि, कर्मक्षयाय साधनम् ॥१०॥ तैलं गन्धं यथा वस्त्रे, शास्त्रं तनोतु भूतले । प्राप्तेनानेन पुण्येन, सर्वे जीवाः शिवं ययुः ॥११॥
For Private & Personal Use Only
૨૩૧
www.jainelibrary.org