SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सन्मतित सने तेनुं महत्त्व . १६३ . प्रथमा द्वात्रिंशिका न काव्यशक्तेन परस्परेjया न वीर ! कीर्तिप्रतिबोधनेछया । न केवलं श्राद्धतयैव नूयसे गुणज्ञ पुज्योऽपि यतोऽयमादरः ॥४॥ परस्पराक्षेपविलुप्तचेतसः स्ववादपूर्वोपरमूढनिश्चयान् । समीक्ष्य तत्त्वोत्पथिकान् कुवादिनः कथं पुमान् स्याच्छिथिलादरस्त्वयि ॥५॥ वदन्ति यानेव गुणान्धचेतसः समेत्य दोषान् किल ते स्वविद्विषः । .... त एव विज्ञानपथागताः सतां त्वदीयसक्तप्रतिपत्तिहेतवः ॥६॥ समृद्धपत्रा अपि सच्छिखण्डिलो यथा, न गच्छन्ति गतं गरुत्मतः । ... सुनिश्चितज्ञेयविनिश्चयास्तथा न ते मतं यातुमलं प्रवादिनः ॥१२॥ .... य एष षड्जीवनिकायविस्तरः परैरनालीलपथस्त्वयोदितः ।। अनेन सर्वज्ञपरीक्षणक्षमा-स्त्वयि प्रसादोदयसोत्सवाः स्थिताः ॥१३॥ अलब्धनिष्ठाः प्रसमिद्धचेतसस्तव प्रशिष्याः प्रथयन्ति यद्यशः । न तावदप्येकसमूहसंहताः प्रकाशयेयुः परवादिपार्थिवाः ॥१५॥ नयप्रसङ्गापरिमेयविस्तरै-रनेकभङ्गाभिगमार्थपेशलैः । अकृत्रिमस्वादुपदैर्जनं जनं जिनेन्द्र ! साक्षादिव पासि भाषितैः ॥१८॥ न कर्म कर्तारमतीत्य वर्तते य एव कर्ता स फलान्युपाश्नुते । तदष्टधा पुद्गलमूर्तिकर्मजं यथात्थ नैवं भुवि कश्चनापरः ॥२६॥ न मानसं कर्म न देहवाङ्मयं शुभाशुभज्येष्ठफलं विभागशः । यदात्थ तेनैव समीक्ष्यकारिणः शरण्य ! सन्तस्त्वयि नाथबुद्धयः ॥२७॥ द्वितीया द्वात्रिंशिका सद्धर्मबीजवपनानघकौशलस्य यल्लोकबान्धव ! तवापि खिलान्यभूवन् । तन्नाद्भुतं खगकुलेष्विह तामसेषु सूर्यांशवो मधुकरीचरणावदाताः ॥१३॥ पापं न वाञ्छति जनो न च वेत्ति पापं पुण्योन्मुखश्च न च पुण्यपथः प्रतीतः । निःसंशयं स्फुटहिताहितबिर्णवस्तु...... त्वं पापवत्सुगत ! पुण्यमपि व्यधाक्षीः ॥१६॥ चतुर्थी द्वात्रिंशिका कुलिशेन सहस्रलोचनः सविता चांशुसहस्रलोचनः ।। न विदारयितुं यदीश्वरो जगतस्तद्भवता हतं तमः ॥३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001204
Book TitleAnekanta Chintan
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi
PublisherGurjar Granthratna Karyalay
Publication Year2003
Total Pages316
LanguageGujarati
ClassificationBook_Gujarati & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy