________________
કથા પદ્ધતિનું સ્વરૂપ અને તેના સાહિત્યનું દિગ્દર્શન • ૧૦૫ विजयो ह्यत्र सन्नीत्या दुर्लभस्तत्त्ववादिनः । तद्भावेऽप्यन्तरायादिदोषो दृष्टविघातकृत् ॥५॥ परलोकप्रधानेन मध्यस्थेन तु धीमता । स्वशास्त्रज्ञाततत्त्वेन धर्मवाद उदाहृतः ॥६॥ विजयेऽस्य फलं धर्मप्रतिपत्त्याद्यनिन्दितम् । आत्मनो मोहनाशश्च नियमात्तत्पराजयात् ॥७॥ देशाद्यपेक्षया चेह विज्ञाय गुरुलाघवम् । तीर्थकृज्ज्ञातमालोच्य वादः कार्यः विपश्चिता ॥८॥
विषयो धर्मवादस्य तत्तत्तंत्रव्यपेक्षया । प्रस्तुतार्थोपयोग्येव धर्मसाधनलक्षणः ॥१॥ पंचैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥२॥ कखल्वेतानि युज्यन्ते मुख्यवृत्त्या क वा न हि । तत्रे तत्तंत्रनीत्यैव विचार्य तत्त्वतो ह्यदः ॥३॥ धर्माथिभिः प्रमाणादेर्लक्षणं न तु युक्तिमत् । प्रयोजनाद्यभावेन तथा चाह महामतिः ॥४॥ "प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः । प्रमाणलक्षणस्योक्तौ ज्ञायते न प्रयोजनम्" ॥५॥ प्रमाणेन विनिश्चित्य तदुच्येत न वा ननु । अलक्षितात् कथं युक्ता न्यायतोऽस्य विनिश्चितिः ॥६॥ सत्यां चास्यां तदुक्त्या किं तद्वद्विषयनिश्चितेः । तत एवाविनिश्चित्य तस्योक्तिया॑न्ध्यमेव हि ॥७॥ तस्माद्यथोदितं वस्तु विचार्यं रागवर्जितैः । धर्माथिभिः प्रयत्नेन तत इष्टार्थसिद्धितः ॥८॥
. परिशिष्ट ५ વાદી દેવસૂરિનો તથા આચાર્ય હેમચંદ્રનો વાદવિચાર
વિભાગ ૧ વાદસ્વરૂપ પરસ્પર વિરુદ્ધ એવા બે અંશોમાંથી એક અનિષ્ટ અંશનું
१. विरुद्धयोर्धर्मयोरेकधर्मव्यवच्छेदेन स्वीकृततदन्यधर्मव्यवस्थापनार्थं साधनदूषणवचनं
वादः । प्रमाणनयतत्त्वा. परि० ८, सू० १.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org