________________
४०२
आचाराङ्गसूत्रे पञ्चमं परिशिष्टम् सकाशाद् गणभृताम् 'उत्पाद-व्यय-ध्रौव्ययुक्तं सत्' इति प्रतीतिरुपजायते, अन्यथा सत्ताऽयोगात्। ततश्च ते पूर्वभवभावितमतयो द्वादशाङ्गमुपरचयन्ति" इति आवश्यकसूत्रस्थ हरिभद्रसूरिविरचितायां वृत्तौ पृ० २७७ । मलयगिरिसूरिविरचितायां वृत्तौ पृ० ३६३ ।
"यद् भगवद्भिः सर्वदर्शिभिः....."उक्तम् , भगवच्छिष्यैरतिशयवद्भिरुत्तमातिशयवाग् बुद्धिसम्पन्नैर्गणधरैब्धं तदङ्गप्रविष्टम्” इति तत्त्वार्थभाष्ये १।२०।
"भगवदर्हत्सर्वज्ञहिमवन्निर्गतवाग्गङ्गार्थविमलसलिलप्रक्षालितान्तःकरणैर्बुद्धयतिशयर्द्धियुक्तैर्गणधरैरनुस्मृतग्रन्थरचनं आचारादि द्वादशविधमङ्गप्रविष्टमित्युच्यते” इति तत्त्वार्थराजवार्तिके १।२०। -इत्यायुल्लेखानुसारेण भगवतामहतां शिष्यैर्गणधरैः जिनवचनानुसारेण भाचारादीनि द्वादश अङ्गानि विरचितानि। तत्र प्रथमम् आचाराङ्गम् । बौद्धा अपि केचिद् बुद्धवचनं नवाङ्गीरूपेण, केचिच्च द्वादशाङ्गीरूपेण विभजन्ति, तथाहि
"कथं नवंगवसेन नव अंगानी ति ? सव्वमेव हिदं 'सुत्तं १, गेय्यं २, वेय्याकरणं ३, गाथा ४, उदानं ५, इतिवुत्तक ६, जातक ७, अब्भुतधम्म ८, वेदल्लं ९ ति नवंगप्पभेदं होति" इति अट्ठशालिन्यां बौद्धग्रन्थे पृ० २२। “धर्मविनिश्चयः कतमः ? आर्यशासनं द्वादशाइधर्मः । कतमानि द्वादशाङ्गानि ? १ सूत्रं, २ गेयं, ३ व्याकरणं, ४ गाथा, ५ उदानं, ६ निदानम् , . अवदानम् , ८ इतिवृत्तक, ९ जातकं, १० वैपुल्यम्, ११ अद्भुतधर्मः, १२ उपदेशश्च" इति बौद्धाचार्येण असङ्गेन विरचिते अभिधर्मसमुच्चये पृ० ७८ ।
पृ० १५० २ पढमो सुयक्खंधो। प्रथमः श्रुतस्कन्धः 'ब्रह्मचर्य 'नाम्नापि, नवाध्ययनात्मकत्वाच्च नवब्रह्मचर्य'नाम्नापि प्रसिद्धः। दृश्यतां पृ० १०२ पं० ४, पृ० १०३ टि. २। अस्य च दशवैकालिकचूर्ण्यनुसारेण दशवैकालिकहारिभद्रीवृत्त्यनुसारेण च गद्य-पद्यगेय-चौर्ण-भेदेन चतुर्विधेषु ग्रथितपदेषु चौर्णपदेऽन्तर्भावः। सूत्रकृताङ्गचूर्णि-वृत्त्यनुसारेण तु गद्य-पद्य-कथ्य-गेयभेदेन चतुर्विधेषु जातिनिबद्धसूत्रेषु गद्येऽन्तर्भावः। तथाहि“गजं पजं गेयं चुण्णं च.चउव्विहं तु गहियपयं । तिसमुट्ठाणं सव्वं इइ बैंति सलक्खणा कइणो ॥१७०॥ महरं हेउनिजुत्तं गहियमपायं विरामसंजुत्तं। अपरिमियं चऽवसाणे कन्वं गजं ति नायव्वं ॥ १७१॥ पजं तु होइ तिविहं सममद्धसमं च नाम विसमं च । पाए हिं अक्खरेहिं य एव विहिष्णू कई बेति ॥ १७२॥ तंतिसमं तालसमं वण्णसमं गहसमं लयसमं च । कव्वं तु होइ गेयं पंचविहं गीयसन्नाए ॥ १७३ ॥ अत्थबहुलं महत्थं हेउनिवाओवसग्गगंभीरं । बहुपायमवोच्छिन्नं गम-णयसुद्धं च चुण्णपयं ॥ १७४ ॥” इति दशवैकालिकनियुक्तौ। अस्य व्याख्या"गद्यं पद्यं गेयं चौर्ण च चतुर्विधमेव ग्रथितपदम् , एमिरेव प्रकारैर्ग्रथनात् । एतच्च त्रिभ्यो धर्मार्थकामेभ्यः समुत्थानं तद्विषयत्वेनोत्पत्तिरस्येति त्रिसमुत्थानं सर्वम्"एवं ब्रुवते सलक्षणा लक्षणज्ञाः कवयः इति गाथार्थः ॥१७॥ गद्यलक्षणमाह-मधुरं हेतुनियुक्तं सोपपत्तिकं, ग्रथितं बद्धमानुपूर्व्या, अपादं विशिष्टच्छन्दोरचनायोगात् पादवर्जितम् , विरामः-अवसानं, तत्संयुक्तम्-अर्थतो न तु पाठत इत्येके 'यतिविशेषसंयुक्तमन्ये, अपरिमितं चावसाने बृहद् भवतीत्येके । अन्ये तु अपरिमितमेव भवति बृहदित्यर्थः, अवसाने 'मृदु पठ्यते' इति शेषः । काव्यं गद्यम्' इति
१. बहुपय° इत्यपि प्रत्यन्तरेषु अगस्त्यसिंहविरचितायां चूर्णौ च पाठः । २. “अपायं नाम पादा से नत्थि, विरामो से अत्थओ भवइ, इतरथा ताव ण ठाए समत्तं" इति दशवकालिकचूर्णी 'वृद्धविवरण'रूपेण प्रसिद्धायाम् पृ० ७७ । “अपादं जंण पादबद्धं" इति अगस्त्यसिंहविरचितायां दशवैकालिकचूणौ पृ० ४० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org