SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पणानि ७६७ विमलप्रभा। पुष्पाभा देवदत्ताख्या परा सागरपत्रिका॥ नागदत्ताभिधा चान्या चार्वी सिद्धार्थसिद्धिका । विजया वैजयन्ती च जयन्ताख्याऽपराजिता ॥ नाम्नोत्तरकुरुश्चान्या दिव्या देवकुरुश्रुतिः। विमलामा च चन्द्राभा जिनानां शिबिकाः क्रमात्॥६०/२२१-२२५॥" इति हरिवंशपुराणे॥ पृ. ४६६ पं० १३ एक्को..."। तुला-"पव्वजिदो मल्लिजिणो रायकुमारेहिं तिसयमेत्तेहिं । पासजिणो वि तह चिय एकच्चिय वड्ढमाणजिणो ॥६६८॥ मल्लि ३००। पास ३००। वीर १। छावत्तरिजुदछस्सयसंखेहिं वासुपुज्जसामी य। उसहो तालसएहिं सेसा पुह पुह सहस्सेहिं ॥६६९॥ वासु ६७६। उसह ४०००। सेसे १०००।” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे। “वीरस्यैकस्य निष्क्रान्तिस्त्रिशतैर्मल्लिपार्श्वयोः। षडुत्तरैः शतैः षड्भिर्वासुपूज्यजिनस्य तु ॥३५०॥ चतुःसहस्रसंख्यानैनिष्क्रान्तो वृषभो नृपैः। सहस्रपरिवारास्तु प्रत्येकमितरे जिनाः॥ ३५१॥” इति हरिवंशपुराणे षष्टितमे सर्गे ॥ पृ० ४६६ पं० १७ सुमतिऽत्थ णिच्चभत्तेण...... । दिगम्बराणां ग्रन्थेषु हरिवंशपुराणे "निष्क्रान्तिः सुमतेर्भुक्त्वा मल्लेः साष्टमभक्तका। तथा पार्श्वजिनस्यापि जयाजस्य चतुर्थका ॥६०१२१६॥ षष्ठभक्तभृतां दीक्षा शेषाणां तीर्थदर्शिनाम् ।" इति उल्लेखः। तिलोयपण्णत्तिमध्ये तु चतुर्थेऽधिकारे 'भगवतो वासुपूज्यस्य एकोपवासेन, ऋषभदेव मल्लिनाथ-पार्श्वनाथानां षष्ठभक्तेन, शेषाणां तु तीर्थकराणाम् अष्टमभक्तेन दीक्षा' इति वर्णितम्॥ पृ० ४६७ पं० १ सेजंस...। अत्र दिगम्बरग्रन्येषु भिक्षादायकानां नामान्येवमुपलभ्यन्ते___“स श्रेयान् ब्रह्मदत्तश्च सुरेन्द्र इव सम्पदा। राजा सुरेन्द्रदत्तोऽन्यः इन्द्रदत्तश्च पद्मकः ॥ २४५॥ सोमदत्तो महादत्तः सोमदेवश्च पुष्पकः। पुनर्वसुः [नन्दः] सुनन्दश्च जयश्चापि विशाखकः ॥ २४६ ॥ धर्मसिंहः सुमित्रश्च धर्ममित्रोऽपराजितः। नन्दिषेणश्च वृषभदत्तो दत्तश्च सन्नयः॥२४७॥ वरदत्तश्च नृपतिर्धन्यश्च बकुलस्तथा। पारणासु जिनेन्द्रेभ्यो दायकाश्च त्वमी स्मृताः॥२४८॥” इति हरिवंशपुराणे षष्टितमे सर्गे। अत्र हरिवंशपुराणे २४६ तमे श्लोके [नन्दः] इति पाठ आवश्यकः, तथैव चतुर्विंशतिसंख्यापूरणात् । उत्तरपुराणानुसारेण तु इमानि नामानि-श्रेयान् १, ब्रह्मा २, सुरेन्द्रदत्तः ३, इन्द्रदत्तः ४, पद्मः ५, सोमदत्तः ६, महेन्द्रदत्तः ७, सोमदत्तः ८, पुष्पमित्रः ९, पुनर्वसुः १०, नन्दः ११, सुन्दरः १२, कनकप्रभः १३, विशाखः १४, धन्यसेनः १५, सुमित्रः १६, धर्ममित्रः १७, अपराजितः १८, नन्दिषेणः १९, वृषभसेनः २०, दत्तः २१, वरदत्तः २२, धन्यः २३, कूलः २४ । पृ० ४६७ पं० ९ संवच्छरेण... तुला-"एकवरिसेण उसहो उच्छुरसं कुणइ पारणं अवरे। गोक्खीरे णिप्पणं अण्णं बिदियम्मि दिवसम्मि ॥६७१॥ सव्वाण पारणदिणे णिवडइ' । वरिसमंबरदो। पणषणहददहलक्खं जेठं अवरं सहस्सभागं च ॥६७२॥” इति तिलोयपण्णत्तिमध्ये चतुर्थेऽधिकारे। __ “वर्षेण पारणाद्यस्य जिनेन्द्रस्य प्रकीर्तिता। तृद्वितीयदिवसेऽन्येषां पारणाः प्रथमा मताः॥२३७॥ आयेनेक्षुरसो दिव्यः पारणायां पवित्रितः। अन्यैर्गोक्षीरनिष्पन्नपरमान्नमलालसैः ॥२३८॥ ...अर्धत्रयोदशोत्कर्षाद् वसुधारासु कोट्यः। तावन्त्येव सहस्राणि दशध्नानि जघन्यतः ॥२५०॥” इति हरिवंशपुराणे षष्टितमे सर्गे॥ पृ० ४६७ पं० १५ चेतियरुक्खा... तुला-"णाणतरुनाम चि-नग्गोह १ सत्तिवन्ने २ साले ३ पियए ४ पियंगु ५ छत्तोहे ६ । सिरीसे य ७ नागरुक्खे ८ मल्ली य ९ पिलंखुरुक्खे य १० ।। १४८ ॥ तिंदुग ११ पाडल १२ जंबू १३ आसोत्थे १४ खलु तहेव दहिवन्ने १५। नंदीरुक्खे १६ तिलए १७ अंबयरुक्खे १८ असोए य १९॥ १४९॥ चंपगरुक्खे २० बउले २१ वेडसरुक्खे २२ तहेव धयरुक्खे । २३ साले २४ चउवीसइमे इय रुक्खा जिणवराणं तु ॥ १५०॥” इति विचारसारे। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy