SearchBrowseAboutContactDonate
Page Preview
Page 850
Loading...
Download File
Download File
Page Text
________________ समवायाङ्गे ७९ नालियाखेड ८० वट्टखेडुं ८१ पत्तच्छेज्जं ८२ कडगच्छेज्जं ८३ पचगच्छेज्जं ८४ सज्जीवं ८५ निज्जीवं ८६ उणस्यं कतिपयानि विशिष्टानि टिप्पणानि जम्बूद्वीपप्रज्ञप्तिवृत्तौ द्वितीये वक्षस्कारे शान्तिचन्द्रोपाध्यायै राजप्रश्रीयाद्यनुसारेण कलानां द्वासप्ततिर्नामानि वर्णितानि, किन्तु सम्प्रति राजप्रश्नीयसूत्रे त्रिसप्ततिर्नामानि दृश्यन्ते, कश्चित् क्रमभेदोऽपि दृश्यते । जम्बूद्वीपप्रज्ञप्तिवृत्तौ यादृशः पाठो यथा च तद्वयाख्यानं तत् सर्वमत्रोपन्यस्यते - Jain Education International ७६१ " विस्तरतस्तु श्री राजप्रश्नीयादिसूत्रादर्शेषु दृश्यमाना द्वासप्ततिकलास्तत्पाठोपदर्शनपूर्वकं वित्रियन्ते, यथा - "लेहं १, गणिअं २, रूवं ३, नहं ४, गीअं ५, वाइयं ६, सरगयं ७, पोक्खरगयं ८, समताल ९, जूअं १०, जणवा ११, पासयं १२, अट्ठावयं १३, पोरकव्वं १४, दगमट्टि १५, अन्नविहिं १६, पाणविहिं १७, वत्थविहिं १८, विलेवणविहिं १९, सयणविहिं २०, अज्ज २१, पहेलिअं २२, मागहिअं २३, गाहं २४, गीअं २५, सिलोगं २६, हिरण्णजुत्तिं २७, सुवण्णजुत्तिं २८, चुण्णजुत्तिं २९, आभरणविहिं ३०, तरुणीपरिकम्मं ३१, इत्थिलक्खणं ३२, पुरिसलक्खणं ३३, हयलक्खणं ३४, गयलक्खणं ३५, गोणलक्खणं ३६, कुक्कुडलक्खणं ३७, छत्तलक्खणं ३८, दंडलक्खणं ३९, असि - लक्खणं ४०, मणिलक्खणं ४१, कागणिलक्खणं ४२, वत्थुविज्जं ४३, खंधावारमाणं ४४, नगरमाणं ४५, चारं ४६, पडिचारं ४७, वूहं ४८, पडिवूहं ४९, चक्कवूहं ५०, गरुडवूहं ५१, सगडवूहं ५२, जुद्धं ५३, नियुद्धं ५४, जुद्धातियुद्धं ५५, दिट्ठिजुद्धं ५६, मुट्ठियुद्धं ५७, बाहुयुद्धं ५८, लयायुद्धं ५९, इसत्थं ६०, छरुप्पवायं ६९, धणुव्वेयं ६२, हिरण्णपागं ६३, सुवण्णपागं ६४, सुत्तखेडुं ६५, वत्थखेडुं ६६, नालिआखेडुं ६७, पत्तच्छेज्जं ६८, कडच्छेज्जं ६९, सज्जीवं ७०, निज्जीवं ७१, सउणरुअ ७२ मिति । अत्र लेहमित्यादीनि द्वासप्ततिपदानि राजप्रश्रीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापि व्याख्यायां तथैव दर्शयिष्यन्ते, समवायाङ्गानुसारेण वा विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेखः अक्षरविन्यासः, तद्विषया कला विज्ञानं लेख एवोच्यते, तं भगवानुपदिशतीति प्रकृते योजनीयम्, एवं सर्वत्र योजना कार्या, स च लेखो द्विधा - लिपि - विषयभेदात्, तत्र लिपिरष्टादशस्थानोक्ता, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्र - वल्कल - काष्ठ- दन्त- लोहताम्र-रजतादयोऽक्षराणामाधारास्तथा लेखनोत्किरण- स्यूत- ब्यूत-च्छिन्न-भिन्न दग्ध-सङ्क्रान्तितोऽक्षराणि भवन्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्य पितृपुत्रगुरुशिष्यभार्यापतिशत्रु मित्रादीनां लेखविषयणामनेकत्वातथाविषप्रयोजनमेदाच्च, अक्षरदोषाश्चैते - 'अतिकामतिस्थौल्यं, वैषम्यं पङ्क्तिवक्रता । अतुल्यानां च सादृश्यमविभागोऽवयवेषु च ॥ १ ॥ ' इति १, तथा गणितं - सङ्ख्यानं सङ्कलिताद्यनेकमेदं पाटीप्रसिद्धं २, रूपं — लेप्यशिला सुवर्णमणिवस्त्र चित्रादिषु रूपनिर्माणं ३, नाट्यं साभिनयनिरभिनय भेदभिन्नं ताण्डवं ४, गीतं गन्धर्वकलां गानविज्ञानमित्यर्थः ५, वादितं - वाद्यं ततविततादिभेदभिन्नं ६, स्वरगतं गीतमूलभूतानां षड्जऋषभादिस्वराणां ज्ञानं ७, पुष्करगतं पुष्करं - मृदङ्गमङ्गयादिमेदभिन्नं तद्विषयकं विज्ञानं, वाद्यान्तर्गतastrस्य यत् पृथकथनं तत् परमसङ्गीताङ्गखख्यापनार्थे ८, समतालं - गीतादिमानकाळस्तालः, सं For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy