SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३६२ समवायंगसुत्ते एगूणवीसट्टाणं। [सू० १९दावद्दवे ११ उदगणाते १२ मंडुक्के १३ तेतली १४ इ य । नंदिफले १५ अवरकंका १६ आइण्णे १७ सुसमा ति य १८॥१८॥ अवरे य पुंडरीए णाए ऐगूणवीसइमे १९ । राजा कनकः कनका महाराज्ञी, पुत्रो नागकुमारः तपो गृहीत्वा विहरमाणोऽटव्या दावानलेन दह्यमानः समाधिना मृत्वाऽच्यतेन्द्रो जातः। तदर्धदग्धकलेवरं दृष्टा तभद्रो नाम तत्रत्यो भिल्लो जातपश्चातापो मृत्वा तत्रैव श्वेतगजो। जातः। सोऽच्युतेद्रेण जिनधर्म ग्राहितः। पुनर्दावानलेन दह्यमानं शशकं स्वपादतले स्थितं रक्षित्वा दह्यमानोऽपि दृढव्रतो भत्वा मृत्वा देवो जातः। कुम्म, कूर्माख्यानं यथा-कूर्मेण मुखचरणसंकोचं कृत्वाऽऽत्मनो ब्राह्मणान्मरणं निवारितं तथा मुनिभिरपि पञ्चेन्द्रियसंकुचितैमरणपरम्परा निवारयितव्या। अंडय, अण्डजकथा पञ्चप्रकारा, तद्यथा-कुक्कुटकथा १, माताऽप्येकः पिताऽप्येक इति तापसपल्लिकास्थितशुककथा २, चाणक्यव्याकरणे वेदकशुकतथा ३, अगंधनसर्पकथा ४, हंसयूथबन्धमोचनकथा ५। रोहिणी, स्वपुत्रबलदेवेन सह रोहिणी तिष्ठतीति लोकापवादं श्रुत्वा रोहिण्या तदा भणितं-यद्यहं शुद्धा तदा यमुनानदी सौरीपुरं वेष्टित्वा पूर्वाभिमुखं वहत्विति तन्माहात्म्यात् तथैव जातम् । सिस्स, शिष्यकथा यथा-चेलिनीपुत्रवारिषेणप्रतिबोधितपुष्पडालमुनिकथा। तुंब, रोषेण दत्तकटुकतुम्बकभोजनमुनिकथा। संघादे, अस्य कथा-कौशाम्बीनगर्यामिन्द्रदत्तादयो द्वात्रिंशदिभ्याः। तेषां समुद्रदत्तदयो द्वात्रिंशत् पुत्राः परस्परमित्रत्वमुपगताः सम्यग्दृष्टयः केवलिसमीपेऽतिस्वल्पं निजजीवितं ज्ञात्वा तपो गृहीत्वा यमुनातीरे पादोपयानमरणेन स्थिताः। अतिवृष्टौ जातायां जलप्रवाहेण यमुनाहदे सर्वेऽपि ते पतिताः। परमसमाधिना कालं कृत्वा स्वर्ग गताः। मादंगिमल्लि, मातंगिमल्लिकथा यथा-वज्रमुष्टिमहाभटभार्यायाः मातङ्गिनामायाः मल्लिपुष्पमालाभ्यन्तरस्थितसर्पदष्टायाः कथा। चंदिम, चन्द्रवेधकथा। तावदेवय, तावद्देवतोपद्रवदेशोत्पन्नघोटिकहरणसगरचक्रवतिकथा। तिक, मनुष्यकरोटसमुत्थितवंशत्रिकस्य करकण्डमहाराजकृतछत्रध्वजाङ्कुशदण्डकथा। तलाय, तडागपल्लयामेकवृक्षकोटरस्थिततपस्विनो गन्धर्वाराधनाकथितकथा। किण्णे, व्रीहिमर्दनस्थितकर्षकपुरुषसत्यकथा। सुसुकेय, आराधनाकथितसंसुमारइदनिक्षिप्तपाषाणकथा। अवरकंके, अवरकंकानामपत्तनोत्पन्नाजनचौरकथा। गंदीफल, अटव्या(वी.) स्थितबुभुक्षापीडितधन्वन्तरिविश्वानुलोमभृत्यानीतकिम्पाकफल कथा। उदगणाह, उदकनाथकथा यथा-राजामात्यसमक्षगडुलपानीयस्वच्छकरणकथा। मंडूके, उद्यानवनतडागसमुत्पन्नजातिस्मरणमण्डूककथा। पुंडरीगो, पुण्डरीकराजपुत्र्याः कथा। अथवा गाथा गुणजीवा पजत्ती पाणा सण्णा य मडगणाओ य । एऊणवीसा एदे णाहज्झाणा मुणेयवा॥ अथवा गाथाणव केवललद्धीओ कम्मक्खयजा हवंति दस चेव । णाहज्झाणा एदे एऊणवीसा वियाणाहि॥ कर्मक्षयजा घातिक्षयजा दशातिशयाः। एतेषामकाले पठनादौ यो दोषस्तस्य प्रतिक्रमणम् ।"पृ० ५१-५४ ॥ ५. सेलते खं०॥ ६. मल्ले जे०॥ १. याइण्णे जे०। आतिण्णे खं० । मातिने सुसुमा हे २। भातिण्णे सुसुमा ला २॥ २. एकूणविसतिमे खं० । एकूणविंशतिमे हे १ ला २। एगूणवीसमे मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001147
Book TitleThanangsuttam and Samvayangsuttam Part 3 Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1985
Total Pages886
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Dictionary, agam_sthanang, & agam_samvayang
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy