________________
केवलिभुक्तिप्रकरणे किञ्च, 'प्रदीपज्वालाजलधारासमानं शरीरम्, तत्र च यथा तैलक्षये न प्रदीपज्वाला अवतिष्ठते जलागमनमन्तरेण वा जलधारा तथा शरीरमपि भुक्त्यभावे न स्थितिमास्तिघ्नुते ।
अथ भुक्तिर्दोषः, यदुपवासादि प्रत्याख्यानं क्रियते, निर्दोषे च केवलिनि दोषो विरुद्धः, तर्हि निषद्या गमनञ्च अर्हति न प्राप्नोति स्थानयोगादिना निषद्यादेः प्रत्याख्यानात्, वचनञ्च न प्राप्नोति मौनव्रतिकोपलम्भात् ।
अथ मतम् - अशेषज्ञस्य मांसादिकं प्रश्यतः कथं भुक्तिः अन्तरायोपपत्तेः ? तदसङ्गतम्, अवधिज्ञानिभिः परमर्षिभिरनेकान्तात्, ते हि सकलं त्रैलोक्यं पश्यन्ति अथ च भुञ्जते, एवं केवल्यपि । इन्द्रियविषये एव हि अन्तरायो नान्यत्र, अन्यथा छद्भस्थावस्थायामप्यन्तरायः स्यात्, भगवता तदापि अवधिज्ञानेन अशेषवस्तुसाक्षात्करणात् ।
न च भक्तौ जिह्वारसप्राप्तेः केवलिनो मतिज्ञानानुषङ्गः यतो न इन्द्रियविषयसम्बन्धमात्रेण मतिज्ञानं भवति । किं तहि ? तत्सम्बन्धे मतिज्ञानावरणक्षयोपशमे च सति । एतच्च प्रक्षीणाशेषावरणे केवलिनि नास्ति इति न तज्ज्ञानानुषङ्गः, अन्यथाश्रोत्रादीन्द्रियाणां दिव्यतूर्यादिरवेण गणधरदेवादिरूपेण सुगन्धिकुसुमधूपवासादिगन्धेन मरुत्सिंहासनस्पर्शन सम्बन्धेऽपि मतिज्ञानमनुषज्येत ।
स च भगवान् पूर्वाह्न अपराह्ने च पादोनप्रहरं धर्मोपदेशनाकाल एव सिंहासनाधिरुढ आस्ते, शेषदिनं तु दिव्यस्थाने देवछन्दकाभिधाने गणधरदेवान्विहाय अन्यमनुष्यतिरश्चामगोचरे ईशानदिशायां समवशरणीयद्वितीयप्राकाराभ्यन्तरवत्तिनि गत्वा पल्यः आसने वा यथासुखमास्ते । तत्र च गणधरदेवैरानीतमाहारं सकलदोषशुद्धं ज्ञात्वा क्षुद्वेदनोदये गृहणाति । ते च आहारं तदीयहस्ते निक्षिप्तिं पश्यन्ति, कथमसौ भुङ्क्ते इत्येतत्तु न पश्यन्ति, मनुष्यतिरश्चां सर्वज्ञाहारनी(नि)हाराणामगोचरत्वात् इति ॥ छ ॥"- पृ० ८५२-८५५ ।
१. तु.-पृ० ४८॥ २. तु०-पृ० ४९ ॥ ३. तु० -पृ० ५० ॥ ४. तु०-पृ. ५१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org