________________
प्रथमं परिशिष्टम् ।
९९
केवलिगता ज्ञानादयः प्रकर्षपर्यन्तप्राप्ताः तेषामेव क्षुधा विरोधः, तन्न, तथा प्रतिपत्तुमशक्तेः । नहि केवलज्ञानादयः क्षुधं विरुन्धन्ति इति अर्वाग्दृशा प्रतिपत्तुं शक्यम्, अतीन्द्रियत्वात्तेषाम् ।
किञ्च, 'अविकलकारणस्य भवतोऽन्यभावेऽभावात् विरोधगतिर्भवति शीतस्पर्शस्येव अग्निसन्निधौ । एतच्चात्र दुर्घटम् – केवलिगुणानामतीन्द्रियतया 'एतत्सन्निधौ क्षुन्न भवति' इति प्रतीतेरनुपपत्तेः । तन्न विधीयमानात् कुतश्चित् तत्र क्षुधोऽभावसिद्धिः ।
निषिध्यमानश्च भावः तस्याः कार्यम्, कारणम्, व्यापको वा स्यात् ? यदि कार्यम्, तदात्मनिर्वर्त्तनसमर्थाऽविकलकारणस्यैव तत् निवृत्तिमवगमयेत् न कारणमात्रस्य, अस्य कार्याभावेऽपि भावाविरोधात् । कारणमपि निवर्त्तमानं कार्यं निवर्त्तयति यथा वह्निर्धूमम्, व्यापकं वा निवर्त्तमानं व्याप्यम् यथा वृक्षः शिशपाम् । न चात्र क्षुधः कारणस्य व्यापकस्य वा कस्यचिन्निवृत्तिरस्ति । न च मोहनीयादिकर्मचतुष्टयाभावात् क्षुधोऽभावः, तस्याः तत्कार्यत्तवस्य तत्स्वभावत्वस्य वाऽसंभवात् । नहि क्षुत् तत्कर्मचतुष्टयकार्या प्राक्प्रतिपादितबाह्याभ्यन्तरकारणप्रभवत्वात्तस्याः । प्रतिपक्ष भावनाऽनिवर्त्यत्वेन मोहस्वभावत्वासंभवाच्च, यो हि मोहस्वभाव: स प्रतिपक्ष भावनया निवर्त्यते यथा क्षमादिभावनया क्रोधादिः, मोहस्वभावा च क्षुद् भवद्भिरिष्टा इति । तथा च क्षुद्वेदनाप्रतीकारार्थं शास्त्रे प्रतिपक्षभावनैव उपदिश्येत न क्लेशभूयिष्ठध्यानाध्ययनविघातकारिणी पिण्डैषणा । शीतोष्णबाधातुल्यत्वाच्च क्षुधो न मोहस्वभावत्वम्, अन्यथा तद्बाधाया अपि मोहस्वभावत्वं स्यादविशेषात् ।
ननु भगवतः क्षुदभ्युपगमे अशेषज्ञत्वादिविरोधः, क्षुदुदये अस्मदादिवत्तत्र ज्ञानदर्शनचेष्टादेः प्रक्षयात्, तदसमीचीनम्, ज्ञानावरणादिप्रक्षये जातायामपि क्षुधि ज्ञानादिक्षयायोगात्, तत्क्षयो हि ज्ञानावरणादिकर्मोदयनिबन्धनः । अतः अस्मदादौ तदुदयातिशयात् तत्क्षयातिशयो युक्तः, भगवति तु तदावरणादेरशेषस्यापगमात् सत्यामपि क्षुधि न ज्ञानादिक्षयः । नहि अग्न्यभावे सत्यपीन्धने धूमो भवति । तत्कर्मचतुष्टयप्रभवत्वे च क्षुधः 'एकादश जिने क्षुत्पिपासादयः परीषहाः वेदनीयप्रभवाः” [ ] इत्यागमविरोधः । न च उत्कर्षेण देशोनपूर्वकोटिं विहरतः सयोगकेवलिनः तावत्कालं कायस्थितिः भुक्ति विना घटते । अथ अनन्तवीर्यत्वात् तां विनाप्यस्य तस्थितिः तर्हि आयुष्यकर्मणापि विना तत्स्थितिप्रसङ्गात् न कदाचित् शरीराद्यपायः स्यात् इति मोक्षाय दत्तो जलाञ्जलिः । तत्स्थिते: आयुष्यकर्मापेक्षणे वा आहारापेक्षणमप्यस्तु उभयस्यापि तत्कारणत्वाऽविशेषात् ।
१. तु० पृ० ४१ ॥
२. तु०
३. तु०
Jain Education International
पृ० ४४ ॥
पृ० ४४ पं० १७ ॥
66
For Private & Personal Use Only
www.jainelibrary.org