________________
तृतीयं परिशिष्टम् । त्रिनवत्यधिके कला दश ५७२९३ क० १० ॥ तथा द्विनवतिशतानि षट्सप्ततानि षट्सप्तत्यधिकानि योजनानां नव कला एकं च कलार्धमित्येतावत्प्रमाणा पूर्वस्यामपरस्यां च दिशि प्रत्येकं महाहिमवतो बाहा । तथाहि- महतो धनु:पृष्ठान्महाहिमवतः सत्कात् सप्तपञ्चाशत्सहस्राणि द्वे शते त्रिनवत्यधिके कला दश ५७२९३ क० १० इत्येवंपरिमाणात् लघु धनुःपृष्ठं हैमवतवर्षसंबन्धि योजनानामष्टात्रिंशत्सहस्राणि सप्त शतानि चत्वारिंशदधिकानि कला दश ३८७४० क० १० एवंसङ्ख्यमपनीयते, 5 अपनीते च सति तस्मिन् जातं शेषमिदम् एककः अष्टकः पञ्चकः पञ्चकः त्रिकः १८५५३, अस्यार्धे लब्धानि योजनानां द्विनवतिशतानि षट्सप्तत्यधिकानि नव कला एवं कला) ९२७६ क० ९ अर्धम् १ ॥५७॥” इति बृहत्क्षेत्र० मलय० ।
[पृ०१५२ पं०३] “केणमित्यादि, केन कारणेन शुक्लपक्षे चन्द्रो वर्द्धते ? केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहाणिर्भवति, केन वा अनुभावेन प्रभावेण चन्द्रस्य एकः पक्षः कृष्णो भवति 10 एको ज्योत्स्नः - शुक्ल इति ? एवमुक्ते भगवानाह- किण्हमित्यादि, इह द्विविधो राहुस्तद्यथापर्वराहुः नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात् समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं च अन्तरितं करोति, अन्तरिते च कृते लोके ग्रहणमिति प्रसिद्धिः, स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कृष्णम्, तच्च तथाजगत्स्वाभाव्यात् चन्द्रेण सह नित्यं सर्वकालमविरहितं तथा चतुरङ्गुलेन चतुभिर्रॉलैरप्राप्तं सत् चन्द्रविमानस्याधस्ताच्चरति, तच्चैवं चरत् शुक्लपक्षे 15 शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह- बावट्ठिमित्यादि, इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनावपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते द्वाषष्टिशब्देनोच्यन्ते, अवयवे समुदायोपचारात्, एतच्च व्याख्यानं जीवाभिगमचूर्खादिदर्शनतः कृतम्, न पुनः स्वमनीषिकया, तथा चास्या एव गाथाया व्याख्याने जीवाभिगमचूर्णिः- “चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भागो ह्रियते, तत्र चत्वारो 20 भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, शेषौ द्वौ भागौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणा मुच्यते'' इत्यादि, एवं च सति यत् समवायाङ्गसूत्रम् - 'सुक्कपक्खस्स दिवसे दिवसे चंदो बावडिं भागे परिवड्डईत्ति तदप्येवमेव व्याख्येयम्, सम्प्रदायवशाद्धि सूत्रं व्याख्येयम्, न स्वमनीषिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत् यस्मात् कारणात् चन्द्रो द्वाषष्टिं द्वाषष्टिं भागान्- द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्धते, कालेन कृष्णपक्षेन पुनर्दिवसे दिवसे 25 तानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् क्षपयति परिहापयति । एतदेव व्याचष्टे- पन्नरस इत्यादि, कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति आच्छादयति, शुक्लपक्षे तु पुनस्तमेव प्रतिदिवसं पञ्चदशभागम् आत्मीयेन पञ्चदशभागेन व्यतिक्रामति मुञ्चति, किमुक्तं भवति ?-कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org