SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ कतिपयानि विशिष्टानि टिप्पनानि । प्रतिपत्तव्यम्, तृतीयं षट्त्रिंशद्योजनसहस्राणि । एवं काण्डत्रयपरिमितो मेरुर्योजनलक्षप्रमाणः ॥ मेरुस्स उवरि चूला, उव्विद्धा जोयणदुवीसं ॥३१४॥ एवं सव्वग्गेणं, समूसिओ मेरु लक्खमइरित्तं । व्या० मेरोर्लक्षप्रमाणस्योपरि योजनसहस्रप्रमाणायामविष्कम्भस्योपरितनस्य तलस्य बहुमध्यभागे द्वे विंशती (४०) योजनानामुद्विद्धा चूला, एवं सर्वात्मना परिमाणतश्चिन्त्यमानो 5 मेरुयोजनलक्षमतिरिक्तं भवति चत्वारिंशदधिकयोजनलक्षप्रमाणो भवतीत्यर्थः ॥' - इति बृहत्क्षेत्र० मलय० ॥ - [पृ०१४४ पं०२३] “साम्प्रतं महाहिमवतो जीवामाह- तेवन्न सहस्साई, नव य सया जोयणाण इगतीसा । जीवा महाहिमवए, अद्ध कला छक्कलाओ य ॥५६॥ व्या० महाहिमवति पर्वते जीवा त्रिपञ्चाशत्सहस्राणि नव शतानि एकत्रिंशदधिकानि योजनानां षट् कला: 10 परिपूर्णाः अर्धकला च । तथाहि- महाहिमवतोऽवगाहो लक्षं पञ्चाशत्सहस्राणि १५०००० । अनेन जम्बूद्वीपविष्कम्भः कलारूप एकोनविंशतिलक्षप्रमाण ऊनः क्रियते, ततो जातं शेषं सार्धाः सप्तदश लक्षाः १७५००००। एतावदवगाहेनोक्तरूपेण १५०००० गुण्यते, जातो द्विकः षट्कः द्विकः पञ्चकः अष्टौ शून्यानि २६२५०००००००० । एष राशिः पुनश्चतुर्भिर्गुण्यते, जातः एककः शून्यं पञ्चकः शून्यानि दश १०५००००००००००, एष महाहिमवतो जीवावर्गः, अस्य वर्गमूलमानीयते, लब्धः 15 एककः शून्यं द्विकः चतुष्कः षट्कः नवकः पञ्चकः १०२४६९५ । शेषमुद्धरितमेककः पञ्चकः षट्कः नवकः सप्तकः पञ्चकः १५६९७५ । छेदराशिः द्विकः शून्यं चतुष्कः नवकः त्रिकः नवकः शून्यं २०४९३९० । वर्गमूललब्धस्य तु राशेर्योजनकरणार्थमेकोनविंशत्या भागो हियते, लब्धानि योजनानां त्रिपञ्चाशत्सहस्राणि नव शतानि एकत्रिंशदधिकानि कलाः षट् ५३९३१ क० ६ । उद्धरितस्तु कलाराशिरर्धकलानयनाय द्विकेन गुण्यते, ततश्छेदराशिना भज्यते इति लब्धमेकं कलार्धमिति 20 ||५६ ॥” इति बृहत्क्षेत्र मलय० । [पृ०१४८ पं०९] “साम्प्रतमस्यैव महाहिमवतो धनुःपृष्ठं बाहां चाह– सत्तावन्न सहस्सा, धणुपटुं तेणउय दुसय दस य कला । बाहा बाणुउइ सया, छसत्तरा नव कलद्धं च ॥५७॥ व्या० महाहिमवतो धनुःपृष्ठं सप्तपञ्चाशत्सहस्राणि द्वे शते त्रिनवत्यधिके योजनानां कला दश । तथाहि- महाहिमवत इषुः सार्धलक्षप्रमाण: १५००००, तस्य वर्गो द्विकः द्विकः पञ्चकः शून्यान्यष्टौ 25 २२५०००००००० । एष राशिः षड्भिर्गुण्यते, जात एककः त्रिकः पञ्चकः शून्यानि नव १३५०००००००००, एतत् प्रागभिहिते महाहिमवतो जीवावर्गे एककः शून्यं पञ्चकः शून्यानि दश १०५०००००००००० इत्येवंपरिमाणे प्रक्षिप्यते, जात एककः एककः अष्टकः पञ्चकः शून्यानि नव ११८५०००००००००, अस्य वर्गमूलानयने लब्ध एककः शून्यम् अष्टकः अष्टकः पञ्चकः सप्तकः सप्तकः १०८८५७७ । शेषमिदम् एककः एककः पञ्चकः शून्यं सप्तकः एककः ११५०७१ । 30 छेदराशिर्दिकः एककः सप्तकः सप्तकः एककः पञ्चकः चतुष्क: २१७७१५४ । वर्गमूललब्धस्य कलाराशेर्योजनानयनार्थमेकोनविंशत्या भागो ह्रियते, लब्धानि योजनानां सप्तपञ्चाशत्सहस्राणि द्वे शते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy