________________
कतिपयानि विशिष्टानि टिप्पनानि ।
सपरिवाराणाम्, तिसृणां पर्षदाम्, सप्तानामनीकानाम्, सप्तानामनीकाधिपतीनाम्, षोडशानामात्मरक्षकदेवसहस्राणाम्, स्वस्य स्वस्यावासपर्वतस्य, स्वस्याः स्वस्या राजधान्या अधिपतयः । तत्र गोस्तूपदेवस्य राजधानी गोस्तूपा, सा च गोस्तूपस्यावासपर्वतस्य पूर्वतोऽपरस्मिन् लवणसमुद्रे द्वादशयोजनसहस्रेभ्यः परतो वेदितव्या । शिवदेवस्य शिवा राजधानी, सा च दकभासस्यावासपर्वतस्य दक्षिणतोऽपरस्मिन् 5 लवणसमुद्रे । शङ्खदेवस्य शङ्खा नाम राजधानी, सा च शङ्खस्यावासपर्वतस्यापरतोऽपरस्मिन् लवणसमद्रे । मनःशिलस्य देवस्य मनःशिला राजधानी, सा च दकसीम्न आवासपर्वतस्योत्तरतोऽपरस्मिन् लवणसमुद्रे ॥ २१॥ तदेवमुक्ता महतां वेलन्धराणां नागराजानामावासपर्वता नामानि च सम्प्रति क्षुल्लवेलन्धरदेवानामावासपर्वतान् नामानि चाह- अणुवेलंधरवासा, लवणे विदिसासु संठिया चउरो । कक्कोडग विज्जुप्पभ, कइलास रुणप्पभे चेव ||२२|| कक्कोडग कद्दमए, केलास 10 रुणप्पभे य रायाणो । बायालीस सहस्से, गंतुं उदहिम्मि सव्वेऽवि ||२३|| व्या० महतां वेलन्धराणामादेशप्रतीच्छकतयाऽनुयायिनो वेलन्धरा अनुवेलन्धरास्तेषामावासा आवासपर्वता लवणे लवणसमुद्रे विदिक्षु उत्तरपूर्वादिकासु चतसृषु विदिक्षु द्वाचत्वारिंशतं योजनसहस्राण्यवगाह्यान्तरे संश्रिताः स्थिताः चत्वारः चतुःसङ्ख्या वेदितव्याः, तद्यथा- उत्तरपूर्वस्यां दिशि कर्कोटकः १, दक्षिणपूर्वस्यां विद्युत्प्रभः २, दक्षिणापरस्यां कैलाशः ३, अपरोत्तरस्यामरुणप्रभः ४ । एतेषामधिपतयो 15 नागराजा यथाक्रमं कर्कोटकः कर्दमकः कैलाशः अरुणप्रभश्च । एते च चत्वारोऽपि गोस्तूपदेव इव महर्द्धिका वेदितव्याः, नवरं कर्कोटकस्य नागराजस्य राजधानी कर्कोटिका, सा च कर्कोटकस्यावासपर्वतस्योत्तरपूर्वस्यां दिशि तिर्यगसङ्ख्येयान् द्वीपसमुद्रानतिक्रम्यापरस्मिन् लवणसमुद्रे द्वादशयोजनसहस्रेभ्यः परतोऽवगन्तव्या । कर्दमस्य च नागराजस्य कर्दमिका राजधानी, सा च विद्युत्प्रभस्य स्वावासपर्वतस्य दक्षिणपूर्वतोऽपरस्मिन् लवणसमुद्रे । कैलाशदेवस्य नागराजस्य कैलाशा 20 नाम राजधानी, सा च स्वावासपर्वतस्य कैलाशस्य दक्षिणापरतोऽपरस्मिन् लवणसमुद्रे । अरुणप्रभस्य नागराजस्यारुणप्रभा नाम राजधानी, सा च स्वावासपर्वतस्यारुणप्रभस्यापरोत्तरतोऽपरस्मिन् लवणसमुद्रे । एते च सर्वेऽपि गोस्तूपादयोऽरुणप्रभपर्यवसाना अष्टावप्यावासपर्वता जम्बूद्वीपवेदिकान्तात्प्रत्येकं द्विचत्वारिंशतं योजनसहस्राण्युदधौ लवणसमुद्रेऽवगाह्यात्रान्तरे वेदितव्याः । एतच्च प्रागेव भावितम् ॥२२-२३॥ सम्प्रत्येतेषामवगाहादिप्रमाणमाह- चत्तारि जोयणसए, तीसं कोसं च उवगया भूमिं । 25 सत्तरस जोयणसए, इगवीसे ऊसिया सव्वे ||२४|| व्या० सर्वेऽष्टावपि गोस्तूपादयः पर्वताः प्रत्येकं चत्वारि योजनशतानि त्रिंशदधिकानि ४३० एकं च क्रोशं १ भूमिमुपगता भूमौ प्रविष्टाः, सप्तदश योजनशतानि एकविंशत्यधिकानि १७२१ उच्छ्रिता उच्चाः । एते च सर्वेऽपि प्रत्येकमेकैकया वेदिकया एकैकेन च वनखण्डेन समन्ततः परिक्षिप्ताः ||२४|| ” इति बृहत्क्षेत्र० मलय० ।
[पृ०६८ पं० २२] 'नाणंतरायदसगं दंसण चत्तारि उच्च जसकित्ती । एया सोलस पयडी, 30 सुहुमकसायम्मि वोच्छिन्ना ||२३|| व्या०- 'नाणंतरायदसगं' इति, ज्ञानावरणं पञ्चविधमन्तरायं
५४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org