________________
तृतीयं परिशिष्टम् । भागे हृते लब्धाः पञ्चचत्वारिंशन्मुहूर्ता इति ।" इति जम्बूद्वीपप्रज्ञप्तेः सप्तमे वक्षस्कारे १६० तम सूत्रस्य शान्तिचन्द्रीयायां वृत्तौ ॥
[पृ०६६ पं०१६] “सम्प्रति लवणसमुद्रशिखावक्तव्यतामाह- दसजोयणसहस्सा, लवणसिहा चक्कवालओ रुंदा । सोलस सहस्स उच्चा, सहस्समेगं च ओगाढा ॥१७॥ व्या० अभ्यन्तरतो बाह्यतश्च पञ्चनवतिपञ्चनवतियोजनसहस्राणि परित्यज्य मध्यभागे लवणसमुद्रस्य शिखा वर्तते, सा 5 च चक्रवालतो रथचक्राकारेण रुन्दा विस्तीर्णा दश योजनसहस्राणि, तथा भूतले समजलपट्टादूर्ध्वमुच्चा षोडश योजनसहस्राणि, सहस्रमेकं योजनानामवगाढा भूमौ प्रविष्टा ॥१७॥ देसूणमद्धजोयण, लवणसिहोवरि दगं दुवे काला । अइरेगं अइरेगं, परिवढइ हायए वावि ॥१८॥ व्या० अनन्तरोक्ताया लवणसमुद्रशिखाया उपरि देशोनमर्धयोजनं किञ्चिन्न्यूने द्वे गव्यूते द्वौ कालौ अहोरात्रमध्ये द्वौ वारौ उदकमतिरेकमतिरेकं परिवर्धते हीयते च, पातालकलशगतवायुक्षोभे वर्धते तदुपशान्तौ 10 च हीयते इत्यर्थः ॥१८॥ सम्प्रति वेलन्धरवक्तव्यतामाह- अन्भिंतरियं वेलं, धरंति लवणोदहिस्स नागाणं । बायालीस सहस्सा, दुसत्तरि सहस्स बाहिरियं ॥१९॥ सहिँ नागसहस्सा, धरंति अग्गोदयं समुदस्स । वेलंधरआवासा, लवणे चाउद्दिसिं चउरो ॥२०॥ व्या० लवणसमुद्रस्याभ्यन्तरिका जम्बूद्वीपाभिमुखां वेलां शिखोपरिजलं शिखां च अर्वाक् प्रविशन्ती धरन्ति वारयन्ति नागानां नागकुमाराणां भवनपतिनिकायान्तर्वर्तिनां द्वाचत्वारिंशत्सहस्राणि, बाह्यां 15 धातकीखण्डद्वीपाभिमुखां वेलां धातकीखण्डद्वीपमध्ये प्रविशन्तीं वारयन्ति नागानां द्वासप्ततिसहस्राणि, तथा षष्टिनागसहस्राणि अग्रोदकं देशोनयोजनार्धजलादुपरि वर्धमानं जलं समुद्रस्य लवणसमुद्रस्य वारयन्ति । एवं सर्वसङ्ख्यया वेलन्धरदेवानामेकं लक्षं चतुःसप्ततिसहस्राणि भवन्ति । उक्तं च"लवणस्स णं भंते समुदस्स केवइया नागसहस्सा अभिंतरियं वेलं धरंति ? केवइया नागसहस्सा बाहिरियं वेलं धरंति ? केवइया नागसहस्सा अग्गोदगं धरंति ? गोयमा ! लवणस्स णं समुद्दस्स 20 बायालीसं नागसहस्सा अभिंतरियं वेलं धरंति, बावत्तरि नागसहस्सा बाहिरियं वेलं धरंति, सर्व्हि नागसहस्सा अग्गोदगं धरंति । एवमेव सपुव्वावरेण लवणे समुद्दे एगसयसाहस्सिया चउहत्तरं च नागसहस्सा भवंतीति मक्खायं” [ ] । एतेषां च वेलन्धरदेवानामावासा आश्रयभूताः पर्वता लवणसमुद्रे पूर्वादिषु चतसृषु दिक्षु द्विचत्वारिंशद्विचत्वारिंशद्योजनसहस्राण्यवगाह्यात्रान्तरे प्रत्येकमेकै कभावेन चत्वारः चतुःसङ्ख्या वेदितव्याः ॥१९-२०॥ सम्प्रति 25 तेषामावासपर्वतानामावासपर्वताधिपतीनां च नागराजानां नामान्याह- पुव्वाइं अणुकमसो, गोत्थुभ दगभास संख दगसीमा । गोत्थुभ सिवए संखे, मणोसिले नागरायाणो ॥२१॥ व्या० तथा पूर्वाद्यनुक्रमेणैवैतेषामावासपर्वतानामधिपतीनां नामान्यमूनि, तद्यथागोस्तूपस्यावासपर्वतस्याधिपतिर्गोस्तूपनामा देवः, दकभासस्य शिवः, शङ्खस्य शङ्खः, दकसीम्नो मनःशिलः । एते चत्वारोऽपि प्रत्येकं चतुर्णामिन्द्रसामानिकसहस्राणाम्, चतसृणामग्रमहिषीणां 30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org