________________
पं.बेचरदास-जीवराजदोशीविरचितः मुनिराजश्री पुण्यविजयजीमहाराजगुणानुवादः । दुराग्रहिदन्तिपराजयसारङ्गम् [-सिंहम्] वन्दे पुण्यं महामुनिम् ॥६॥ स्थिरताविजितमहासारङ्गम् [-पर्वतम्] वन्दे पुण्यं महामुनिम् ॥७॥ कषायज्वालाशमनसारङ्गम् [-मेघम्] वन्दे पुण्यं महामुनिम् ॥८॥ जैनागमसारङ्गवादकम् [=वीणाम्] वन्दे पुण्यं महामुनिम् ॥९॥ निर्लेपताभिभूतसारङ्गम् [=कम्बुम्-शङ्खम्] वन्दे पुण्यं महामुनिम् ॥१०॥ सहिष्णुताधरीकृतसारङ्गम् [=पृथ्वीम्] वन्दे पुण्यं महामुनिम् ॥११॥ जिनशासनारामसारङ्गम् [-कुसुमम्] वन्दे पुण्यं महामुनिम् ॥१२॥ अशान्तितमोनिरसनसारङ्गम् [=दीपम्] वन्दे पुण्यं महामुनिम् ॥१३॥ दान्तेन्द्रियमनःसारङ्गम् [अश्वम्] वन्दे पुण्यं महामुनिम् ॥१४॥ दुरितमलावलीक्षालनसारङ्गम् [-जलम्] वन्दे पुण्यं महामुनिम् ॥१५॥ शुचिजलगङ्गासारङ्गम् [=नदीम्] वन्दे पुण्यं महामुनिम् ॥१६।।
जैनभवनसुभगसारङ्गम् [-दीपम्] वन्दे पुण्यं महामुनिम् ॥१७॥ इत्येवं विनयभक्तिश्रद्धापूर्वकं समुपदीकृतानि गुणगणस्तुतिवचनानि स्वीकरोतु श्री पुण्यविजयो महामुनिः कृपां विधाय शुभाशीर्वादयतु च ।
भवदीया नम्राः सेवका बेचरदास-अजवाली-ललिताप्रभृतिपरीवारजनाः ।
ता.२८।१०।७०। बुधवासरे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org