SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ पं.बेचरदास-जीवराजदोशीविरचितः मुनिराजश्री पुण्यविजयजीमहाराजगुणानुवादः । । नमो नमः श्रीसन्मतिमहावीराय भगवते । । नमो नमः श्रीप्रवर्तककान्तिविजयमहामुनये शान्तिसागराय । । नमः श्रीपुण्यविजयाय पुण्यपूर्णाय । अस्मदीयसमग्रपरिवारसमादृतानां गुणगणसारङ्गाणां [= समुद्राणां] पूर्णीकृतपञ्चसप्ततिवर्षाणां कल्याणमित्राणां श्री पुण्यविजयमुनिमतल्लिकानां गुणस्मरणरूपाणि कियन्ति स्तुतिवचनानि । यन्नामस्मरणात् स्मर्तुः पुण्यं स्याद् विजयोऽपि च । पुण्येन विजयोऽवश्यम् इति यन्नाम सूचकम् ॥१॥ योऽन्वभूत् पुण्य-विजयौ शुचिनि मुनिजीविते । सोऽयं मुनीशः प्रत्यक्षं प्रभाति पुण्यविजयः ॥२॥ मम कल्याणमित्रं स समता-शमतायुतः । जातानि तस्य वर्षाणि पूर्णानि पञ्चसप्ततिः ॥३॥ तेजस्विनोऽपि सुशीताः प्रतापिनोऽपि शान्तिदाः । जन्मतोऽपि द्विश्रुतिका बहुश्रुताः प्रभास्वराः ॥४॥ एतानद्य महाभागान् श्रुतप्रभाकरान् मुनीन् । सारङ्गशब्देनैकेन संस्तोतुं ममोपक्रमः ॥५॥ अत्र निम्नोल्लिखितेषु सर्वेषु वाक्येषु 'वन्दे पुण्यं महामुनिम्' इति सर्वत्र ध्रुवपदम् भविककुमुदवनसारङ्गम् [-चन्द्रम्] वन्दे पुण्यं महामुनिम् ॥१|| कोविदलोकसंघसारङ्गम् [-सूर्यम्] वन्दे पुण्यं महामुनिम् ॥२॥ सत्कृत्यसरसीसारङ्गम् [-हंसम्] वन्दे पुण्यं महामुनिम् ॥३।। अज्ञानतरून्मूलनसारङ्गम् [-हस्तिनम्] वन्दे पुण्यं महामुनिम् ॥४॥ कुविचारधूलिहरणसारङ्गम् [=पवनम्] वन्दे पुण्यं महामुनिम् ॥५॥ ૧. પં.બેચરદાસ જીવરાજ દોશીએ લખેલો આ ગુણાનુવાદનો પત્ર પૂ.આ.પ્ર.મુનિરાજશ્રી પુણ્યવિજયજી મહારાજનાં સંસારી માસીના દીકરીનાં દીકરી સાધ્વીજીશ્રી ઓકારશ્રીજી મહારાજનાં શિષ્યા સાધ્વીજીશ્રી યશોદાશ્રીજી મ. તથા જયંતપ્રભાશ્રીજી મ.ના સૌજન્યથી અમને પ્રાપ્ત થયો છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy