________________
३०३
[सू० १५८]
वासुदेव-बलदेववर्णनम् । मषादीनि तेषां गुणा महर्द्धिप्राप्त्यादयस्तैरुपअपइताः शकन्ध्वादिदर्शनादुपपेता युक्ता लक्षणव्यञ्जनगुणोपपेताः, मानमुदकद्रोणपरिमाणशरीरता, कथम् ?, उदकपूर्णायां द्रोण्यां निविष्टे पुरुषे यजलं ततो निर्गच्छति तद्यदि द्रोणप्रमाणं स्यात् तदा स पुरुषो मानप्राप्त इत्यभिधीयते, उन्मानम् अर्द्धभारपरिमाणता, कथम् ?, तुलारोपितस्य पुरुषस्य यद्यर्द्धभारस्तौल्यं भवति तदाऽसावुन्मानप्राप्त उच्यते, प्रमाणमष्टोत्तरशत- 5 मगुलानामुच्छ्रयः, मानोन्मानप्रमाणैः प्रतिपूर्णम् अन्यूनं सुजातमा गर्भाधानात् पालनविधिना सर्वाङ्गसुन्दरं निखिलावयवप्रधानम् अङ्गं शरीरं येषां ते तथा, शशिवत् सौम्याकारमरौद्रमबीभत्सं वा कान्तं दीप्रं प्रियं जनप्रेमोत्पादकं दर्शनं रूपं येषां ते तथा, अमसण त्ति अमसृणाः प्रयोजनेष्वनलसाः अमर्षणा वा अपराधिष्वकृतक्षमाः, प्रकाण्ड उत्कटो दण्डप्रकार आज्ञाविशेषो नीतिभेदविशेषो वा 10 येषां ते तथा, अथवा प्रचण्डो दुःसाध्यसाधकत्वाद् दण्डप्रचारः सैन्यविचरणं येषां ते तथा, गम्भीरा अलक्ष्यमाणान्तर्वृत्तित्वेन दृश्यन्ते ये ते गम्भीरदर्शनीयाः, ततः पदद्वयस्य कर्मधारयः, प्रचण्डदण्डप्रचारेण वा ये गम्भीरा दृश्यन्ते, तथा तालस्तलो वा वृक्षविशेषो ध्वजो येषां ते तालध्वजा: बलदेवाः, उद्विद्धः उच्छ्रितो गरुडलक्षितः केतुः ध्वजो येषां ते उद्विद्धगरुडकेतवो वासुदेवाः, तालध्वजाश्च उद्विद्धगरुडकेतवश्च 15 तालध्वजोद्विद्धगरुडकेतवः, महाधनुर्विकर्षका: महाप्राणत्वात्, महासत्त्वलक्षणजलस्य सागरा इव सागरा आश्रयत्वान्महासत्त्वसागराः, दुर्द्धरा रणाङ्गणे तेषां प्रहरतां केनापि धन्विना धारयितुमशक्यत्वात्, धनुर्धराः कोदण्डप्रहरणाः, धीरेष्वेव ते पुरुषाः पुरुषकारवन्तो न कातरेष्विति धीरपुरुषाः, युद्धजनिता या कीर्तिस्तत्प्रधानाः पुरुषा युद्धकीर्तिपुरुषाः, विपुलकुलसमुद्भवा इति प्रतीतम्, महारत्नं वज्रं तस्य 20 महाप्राणतया विघटका अगुष्ठ-तर्जनीभ्यां चूर्णका महारत्नविघटकाः, वज्रं हि १. “७९. अचोऽन्त्यादि टि ।१।११६४। अचां मध्ये योऽन्त्यः स आदिर्यस्य तट्टिसंज्ञं स्यात् ॥ शकन्ध्वादिषु पररूपं वाच्यम् ॥ तच्च टेः ॥ शकन्धुः । कर्कन्धुः। कुलटा । (ग) सीमन्तः केशवेशे ॥ सीमान्तोऽन्यः । मनीषा। हलीषा । लाङ्गलीषा । पतञ्जलिः । सारङ्गः पशु-पक्षिणोः । सारङ्गोऽन्यः || आकृतिगणोऽयम् ॥ मार्तण्डः ॥"
इति पा० सिद्धान्तकौमुद्याम् ।। २. दीप्तं जे२ हे२ ।। ३. वा नास्ति जे१,२ हे१ ॥ ४. इतः खं० प्रते: प्रारम्भः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org