________________
३०२
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे पूर्वमुद्दिश्यापि दशारमण्डलव्यक्तिभूतानां तेषां विशेषणार्थमाह- तद्यथेत्यादि, तद्यथेति बलदेव-वासुदेवस्वरूपोपन्यासारम्भार्थः, केचित्तु दशारमंडणा इति पठन्ति, तत्र दशाराणां वासुदेवकुलीनप्रजानां मण्डनाः शोभाकारिणो दशारमण्डनाः, उत्तमपुरुषा इति तीर्थकरादीनां चतुष्पञ्चाशत उत्तमपुरुषाणां मध्यवर्त्तित्वात्, मध्यमपुरुषाः तीर्थकर5 चक्रिणां प्रतिवासुदेवानां च बलाद्यपेक्षया मध्यवर्तित्वात्, प्रधानपुरुषास्तात्कालिकपुरुषाणां शौर्यादिभिः प्रधानत्वात्, ओजस्विनो मानसबलोपेतत्वात्, तेजस्विनो दीप्तशरीरत्वात्, वर्चस्विनः शारीरबलोपेतत्वात्, यशस्विनः पराक्रमं प्राप्य प्रसिद्धिप्राप्तत्वात्, छायंसि त्ति प्राकृतत्वात् छायावन्तः शोभमानशरीराः, अत एव
कान्ता: कान्तियोगात्, सौम्या अरौद्राकारत्वात्, सुभगा जनवल्लभत्वात्, प्रियदर्शनाः 10 चक्षुष्यरूपत्वात्, सुरूपाः समचतुरस्रसंस्थानत्वात्, शुभं सुखं वा सुखकरत्वाच्छीलं
स्वभावो येषां ते शुभशीलाः सुखशीला वा, सुखेनाभिगम्यन्ते सेव्यन्ते ये शुभशीलत्वादेव ते सुखाभिगम्याः, सर्वजननयनानां कान्ता अभिलाष्या ये ते तथा, ततः पदत्रयस्य कर्मधारयः, ओघबला: प्रवाहबलाः अव्यवच्छिन्नबलत्वात्,
अतिबला: शेषपुरुषबलानामतिक्रमात्, महाबलाः प्रशस्तबलाः, अनिहता निरुप15 क्रमायुष्कत्वादुरोयुद्धे वा भूम्यामपातित्वात्, अपराजितास्तैरेव शत्रूणां पराजितत्वात्,
एतदेवाह- शत्रुमर्दनास्तच्छरीर-तत्सैन्यकदर्थनाद्, रिपुसहस्रमानमथनास्तद्वाञ्छितकार्यविघटनात्, सानुक्रोशाः प्रणतेष्वद्रोहकत्वात्, अमत्सरा: परगुणलवस्यापि ग्राहकत्वात्, अचपला मनोवाक्कायस्थैर्यात्, अचण्डा निष्कारणप्रबलकोपरहितत्वात्, मिते परिमिते मञ्जुनी कोमले प्रलापश्च आलापो हसितं च येषां ते मितम प्रलाप20 हसिताः, गम्भीरम् अदर्शितरोष-तोष-शोकादिविकारं मेघनादवद्वा, मधुरं श्रवणसुखकर प्रतिपूर्णम् अर्थप्रतीतिजनकं सत्यम् अवितथं वचनं वाक्यं येषां ते तथा, ततः पदद्वयस्य कर्मधारयः, अभ्युपगतवत्सलाः तत्समर्थनशीलत्वात, शरण्यास्त्राणकरणे साधुत्वात्, लक्षणानि मानादीनि वज्र-स्वस्तिक-चक्रादीनि वा व्यञ्जनानि तिलक१. °वादीनां हे२ ॥ २. युद्धे बाहुभ्यामपाति अपरा' जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org