________________
[सू० १५२] नारकादिस्थितिवर्णनम्-औदारिकादिशरीरवर्णनम् ।
२६९ चैवमतिदिष्टसूत्राण्यर्थतो वाच्यानि– रत्नप्रभानारकाणां भदन्त ! कियती स्थितिः ?, गौतम! जघन्येन दश वर्षसहस्राणि, उत्कर्षतः सागरोपमम् १, अपर्याप्तकरत्नप्रभापृथिवीनारकाणां भदन्त ! कियन्तं कालं स्थितिः प्रज्ञप्ता ?, गौतम! उभयथाऽपि अन्तर्मुहूर्तम् २, एवं पर्याप्तकानां सामान्योक्तैवान्तर्मुहूर्तांना वाच्या ३, एवं शेषपृथिवीनारकाणां प्रत्येकं दशानामसुरादीनां पृथिवीकायिकादीनां तिरश्चां गर्भजेतरभेदानां 5 मनुष्याणां व्यन्तराणामष्टविधानां ज्योतिष्काणां पञ्चप्रकाराणां सौधर्मादीनां वैमानिकानां च गमत्रयं वाच्यम्, इह च विजयादिषु जघन्यतो द्वात्रिंशत् सागरोपमाण्युक्तानि, गन्धहस्त्यादिष्वपि तथैव दृश्यते, प्रज्ञापनायां त्वेकत्रिंशदुक्तेति मतान्तरमिदम्, पर्याप्तकाऽपर्याप्तकगमद्वयमिह समूह्यम्, एवं सर्वार्थसिद्धिस्थितिरपि त्रिभिर्गमैर्वाच्येति ॥
[सू० १५२] कति णं भंते ! सरीरा पण्णत्ता ? गोतमा ! पंच सरीरा 10 पण्णत्ता, तंजहा- ओरालिए जाव कम्मए । __ ओरालियसरीरे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तंजहा- एगिदियओरालियसरीरे जाव गन्भवतियमणुस्सपंचिंदिय
ओरालियसरीरे य । ओरालियसरीरस्स णं भंते! केमहालिया सरीरोगाहणा पण्णत्ता ? गोयमा ! जहन्नेणं अंगुलस्स असंखेजतिभागं, उक्कोसेणं सातिरेगं 15 जोयणसहस्सं । एवं जहा ओगाहणसंठाणे ओरालियपमाणं तहा निरवसेसं, १. “हूर्तम् २, पर्याप्तकानां तु सामान्यो हे२ ॥ २. तत्त्वार्थटीकाकर्तुः सिद्धसेनाचार्यस्य गन्धहस्तिनाम्ना प्रसिद्धिरस्ति । किन्तु तत्त्वार्थस्य सिद्धसेनाचार्यविरचितायां टीकायामीदृशः पाठो वर्तते- “विजयादिषु चतुर्ष जघन्येन एकत्रिंशत् उत्कर्षेण द्वात्रिंशत्, सर्वार्थसिद्ध त्रयस्त्रिंशत् सागरोपमाणि अजघन्योत्कृष्टा स्थितिः । भाष्यकारेण तु सर्वार्थसिद्धेऽपि जघन्यापि द्वात्रिंशत् सागरोपमाण्यधीता, तन्न विद्यः केनाप्यभिप्रायेण" तत्त्वार्थटीका ४।३२] । अत इदमभयदेवसूरिवचनं तत्त्वार्थव्याख्याकर्तुः सिद्धसेनाचार्यस्य गन्धहस्तित्वप्रसिद्धिबाधकम्, ततश्चिन्त्यमिदम् ।
"परत: परत: पूर्वा पूर्वाऽनन्तरा [तत्त्वार्थसू० ४।४२] माहेन्द्रात् परतः, पूर्वा परा अनन्तरा जघन्या स्थितिर्भवति, तद्यथा- माहेन्द्रे परा स्थितिर्विशेषाधिकानि सप्त सागरोपमाणि सा ब्रह्मलोके जघन्या स्थितिर्भवति, ब्रह्मलोके दश सागरोपमाणि परा स्थितिः सा लान्तके जघन्या । एवमा सर्वार्थसिद्धादिति" इति तत्त्वार्थभाष्ये पाठः ४।४२॥
दिगम्बरपरम्परायां तु उपरिमग्रैवेयकेषु प्रथमे एकान्नत्रिंशत्, द्वितीये त्रिंशत्, तृतीये एकत्रिंशत्, अनुदिशविमानेषु द्वात्रिंशत्, विजयादिषु त्रयस्त्रिंशत् सागरोपमाणि उत्कृष्टा स्थितिः, सर्वार्थसिद्धे त्रयस्त्रिंशदेवेति" इति तत्त्वार्थराजवार्तिके ४।३२॥ ३. प्रज्ञापनासूत्रस्य एकविंशतितमे अवगाहनासंस्थानपदे एतद् विस्तरेण वर्णितमस्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org