________________
२४७
[सू० १४७]
दृष्टिवादस्वरूपम् । तेसीतिं भवंतीति मक्खायातिं । सेत्तं परिकम्माइं ।
[टी०] से किं तं दिट्ठिवाए त्ति, दृष्टयो दर्शनानि, वदनं वादः दृष्टीनां वादो दृष्टिवादः दृष्टीनां वा पातो यत्रासौ दृष्टिपातः, सर्वनयदृष्टयः एवेहाख्यायन्त इत्यर्थः, तथा चाह- दिट्ठिवाएणमित्यादि, दृष्टिपातेन दृष्टिपाते वा सर्वभावप्ररूपणाऽऽख्यायते।
से समासओ पंचविहेत्यादि, सर्वमिदं प्रायो व्यवच्छिन्नं तथापि यथादृष्टं किञ्चित् 5 लिख्यते, तत्र सूत्रादिग्रहणयोग्यतासम्पादनसमर्थानि परिकर्माणि गणितपरिकर्मवत्, तच्च परिकर्मश्रुतं सिद्धश्रेणिकादिपरिकर्ममूलभेदतः सप्तविधम्, उत्तरभेदतस्तु त्र्यशीतिविधं मातृकापदादि, एतच्च सर्वं समूलोत्तरभेदं सूत्रार्थतो व्यवच्छिन्नम्, एतेषां च परिकर्मणां षट् आदिमानि परिकर्माणि स्वसामयिकान्येव, गोशालकप्रवर्तिताजीविकपाषण्डिसिद्धान्तमतेन पुनः च्युताच्युतश्रेणिकापरिकर्म- 10 सहितानि सप्त प्रज्ञाप्यन्ते, इदानीं परिकर्मसु नयचिन्ता, तत्र नैगमो द्विविधः - साङ्ग्रहिकोऽसाङ्ग्रहिकश्च, तत्र साङ्ग्रहिकः सङ्ग्रहं प्रविष्टोऽसाङ्ग्रहिकश्च व्यवहारम्, तस्मात् सङ्ग्रहो व्यवहार ऋजुसूत्रः शब्दादयश्चैक एवेत्येवं चत्वारो नयाः, एतैश्चतुर्भिर्नयैः षट् स्वसामयिकानि परिकर्माणि चिन्त्यन्ते, अतो भणितं छ चउक्कनइयाइं भवन्ति, त एव चाजीविकास्त्रैराशिका भणिताः, कस्माद् ?, उच्यते, यस्मात्ते सर्वं त्र्यात्मकम् 15 इच्छन्ति, यथा 'जीवोऽजीवो जीवाजीवः, लोकोऽलोको लोकालोकः, सत् असत् सदसत्' इत्येवमादि, नयचिन्तायामपि ते त्रिविधं नयमिच्छन्ति, तद्यथा- द्रव्यार्थिकः पर्यायार्थिकः उभयार्थिकः, अतो भणितं सत्त तेरासिय त्ति सप्त परिकर्माणि त्रैराशिकपाषण्डस्थास्त्रिविधया नयचिन्तया चिन्तयन्तीत्यर्थः । सेत्तं परिकम्म त्ति निगमनम् ।
[सू० १४७] [३] से किं तं सुत्ताइं ? सुत्ताइं अट्ठासीतिं भवंतीति 20 मक्खायातिं, तंजहा- उज्जगं परिणयापरिणयं बहुभंगियं विपच्चवियं अणंतरपरंपरं सामाणं संजूहं भिन्नं आहव्वायं सोवत्थितं घंटं णंदावत्तं बहुलं
१. दृष्टिपादेन जे१,२ ॥ २. पाखंडि जे२ ॥ ३. त्रुटितस्य खं० आदर्शस्य नि' इत्यतः प्रारम्भः ॥ ४. संग्राहि खं० । संग्रहि जे२ । जे१ मध्येऽत्र पत्रं त्रुटितम् ॥ ५. संग्राहि खं० । संग्रहि जे२ ॥ ६. संग्रहप्रवि जे२ ॥ ७. संग्राहि खं० हे१ ॥ ८. पाषण्डि हे१,२ विना ॥ ९. 'कम्मे हे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org