SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ २३७ [सू० १४५] अनुत्तरोपपातिकदशावर्णनम् । जिणसमीवं ति जिनसमीपे, यथा च येन च प्रकारेण पञ्चविधाभिगमादिना उपासते सेवन्ते राजादयो जिनवरं तथाऽऽख्यायत इति योगः, यथा च परिकथयति धर्म लोकगुरुरिति जिनवरोऽमर-नरा-ऽसुरगणानाम्, श्रुत्वा च तस्येति जिनवरस्य भाषितम्, अवशेषाणि क्षीणप्रायाणि कर्माणि येषां ते तथा, ते च ते विषयविरक्ताश्चेति अवशेषकर्मविषयविरक्ताः, के ? नराः, किम् ? यथा अभ्युपयन्ति धर्ममुदारम्, 5 किंस्वरूपमत आह-संयमं तपश्चापि, किम्भूतमित्याह- बहुविधप्रकारम्, तथा यथा बहूनि वर्षाणि अणुचरित्त त्ति अनुचर्य आसेव्य संयमं तपश्चेति वर्त्तते, तत आराधितज्ञान-दर्शन-चारित्रयोगाः, तथा जिणवयणमणुगयमहियभासिय त्ति जिनवचनम् आचारादि अनुगतं सम्बद्धं नार्दवितर्दमित्यर्थः महितं पूजितमधिकं वा भाषितं यैरध्यापनादिना ते तथा, पाठान्तरे जिनवचनमनुगत्या आनुकूल्येन सुष्ठ 10 भाषितं यैस्ते जिनवचनानुगतिसुभाषिताः, तथा जिणवराण हियएणमणुणेत्त त्ति, इह षष्ठी द्वितीयार्थे, तेन जिनवरान् हृदयेन मनसा अनुनीय प्राप्य ध्यात्वेति यावत्, ये च यत्र यावन्ति च भक्तानि छेदयित्वा लब्ध्वा च समाधिमुत्तमं ध्यानयोगयुक्ताः उपपन्ना मुनिवरोत्तमा यथा अनुत्तरेषु तथा आख्यायत इति प्रक्रमः, तथा प्राप्नुवन्ति यथाऽनुत्तरं तत्थ त्ति अनुत्तरविमानेषु विषयसुखं तथाऽऽख्यायते इति योगः, तत्तो 15 य त्ति अनुत्तरविमानेभ्यश्च्युताः क्रमेण करिष्यन्ति संयता यथा चान्तक्रियां ते तथाऽऽख्यायन्ते अनुत्तरोपपातिकदशास्विति प्रकृतम् ।। ___ एते चान्ये चेत्यादि पूर्ववत्, नवरं दस अज्झयणा तिन्नि वग्ग त्ति, इहाध्ययनसमूहो वर्गः, वर्गे वर्गे दशाध्ययनानि, वर्गश्च युगपदेवोद्दिश्यते इत्यतस्त्रय एवोद्देशनकाला भवन्तीति । एवमेव च नन्दावभिधीयन्ते, इह तु दृश्यन्ते दशेत्यत्राभिप्रायो न ज्ञायत 20 इति । तथा संख्यातानि पदसयसहस्साइं पदग्गेणं ति किल षट्चत्वारिंशल्लक्षाण्यष्टौ च सहस्राणि ॥९॥ [सू० १४५] से किं तं पण्हावागरणाणि ? पण्हावागरणेसु अट्ठत्तरं १. “यंत जे१ खं० ॥ २. “पहाणादिकोउकम्म, भूतीकम्मं सविजगा भूती । विजारहिते लहुगो चउवीसा तिण्णि पसिणसया ॥४२८९॥ व्या० णिंदुभादियाण मसाणचच्चरादिसु ण्हवणं कजति, रक्खाणिमित्तं भूती, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy