________________
२३६
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे एवाऽनुत्तरोपपातिकाः, तद्वक्तव्यताप्रतिबद्धा दशा दशध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः, तथा चाह- अणुत्तरोववाइयदसासु णमित्यादि, तत्रानुत्तरोपपातिकानामिति साधूनाम्, नगरादीनि द्वाविंशतिः पदानि ज्ञाताधर्मकथावर्णकोक्तानि तथा । एतेषामेव च प्रपञ्च रचयन्नाह– अनुत्तरोपपातिकदशासु तीर्थकरसमवसरणानि, 5 किम्भूतानि ? परममङ्गल्यत्वेन जगद्धितानि परममङ्गल्यजगद्धितानि, जिनातिशेषाश्च
बहुविशेषा देहं विमलसुयंध[ ]मित्यादयश्चतुस्त्रिंशदधिकतरा वा, तथा जिनशिष्याणां चैव गणधरादीनाम्, किम्भूतानामत आह-श्रमणगणप्रवरगन्धहस्तिनां श्रमणोत्तमानामित्यर्थः, तथा स्थिरयशसाम्, तथा परीषहसैन्यमेव परीषहवृन्दमेव रिपुबलं परचक्रं तत्प्रमईनानाम्, तथा दववद् दावाग्निरिव दीप्तानि उज्ज्वलानि, 10 पाठान्तरेण तपोदीप्तानि, यानि चरित्र-ज्ञान-सम्यक्त्वानि तैः सारा: अफल्गवो
विविधप्रकारविस्तारा अनेकविधप्रपञ्चाः प्रशस्ताश्च ये क्षमादयो गुणास्तैः संयुतानाम्, क्वचित्तु गुणध्वजानामिति पाठः, तथा अनगाराश्च ते महर्षयश्चेत्यनगारमहर्षयस्तेषामनगारगुणानां वर्णकः श्लाघा आख्यायत इति योगः, पुनः किम्भूतानां
जिनशिष्याणाम् ? उत्तमाश्च ते जात्यादिभिर्वरतपसश्च ते विशिष्टज्ञानयोगयुक्ताश्चेत्यत15 स्तेषामुत्तमवरतपोविशिष्टज्ञानयोगयुक्तानाम्, किञ्चापरम् ? यथा च जगद्धितं
भगवत इत्यत्र जिनस्य शासनमिति गम्यते, यादृशाश्च ऋद्धिविशेषा देवासुरमानुषाणां रत्नोज्ज्वललक्षयोजनमानविमानरचनं सामानिकाद्यनेकदेवदेवीकोटिसमवायनं मणिखण्डमण्डितदण्डपटु प्रचलत्पताकिकाशतोपशोभितमहाध्वजपुरःप्रवर्तनं
विविधातोद्यनादगगनाभोगपूरणं चैवमादिलक्षणाः प्रतिकल्पितगन्धसिन्धुरस्कन्धारोहणं 20 चतुरङ्गसैन्यपरिवारणं छत्र-चामर-महाध्वजादिमहाराजचिह्नप्रकाशनं च एवमादयश्च
सम्पद्विशेषाः समवसरणगमनप्रवृत्तानां वैमानिक-ज्योतिष्काणां भवनपति-व्यन्तराणां राजादिमनुजानां च, अथवा अनुत्तरोपपातिकसाधूनाम् ऋद्धिविशेषा देवादिसम्बधिनस्तादृशा आख्यायन्त इति क्रिया, तथा पर्षदां संजयवेमाणित्थी संजयि पुव्वेण पविसिउं वीर[ ]मित्यादिनोक्तस्वरूपाणां प्रादुर्भावाश्च आगमनानि, क्व ? १. क्तानि यथा एतेषा' जे२ हे१,२ ॥ २. पवसिउं खं० जे१,२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org