SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ २३२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अनेककोटीसंख्यद्रव्यादिसम्पद्विशेषाः, तथा परिषदः परिवारविशेषा यथा माता-पितृपुत्रादिका अभ्यन्तरपरिषत् दासी-दास-मित्रादिका बाह्यपरिषदिति, विस्तरधर्मश्रवणानि महावीरसन्निधौ, ततो बोधिलाभोऽभिगमः सम्यक्त्वस्य विशुद्धता, स्थिरत्वं सम्यक्त्वशुद्धरेव, मूलगुणोत्तरगुणा अणुव्रतादयः, अतिचारास्तेषामेव बन्ध-वधादितः 5 खण्डनानि, स्थितिविशेषाश्च उपासकपर्यायस्य कालमानभेदाः, बहुविशेषाः प्रतिमाः प्रभूतभेदाः सम्यग्दर्शनादिप्रतिमाः, अभिग्रहग्रहणानि, तेषामेव च पालनानि, उपसर्गाधिसहनानि, निरुपसर्गं च उपसर्गाभावश्चेत्यर्थः, तपांसि च चित्राणि, शीलवतादयोऽनन्तरोक्तरूपाः, अपश्चिमाः पश्चात्कालभाविन्यः, अकारस्त्वमङ्गलपरिहारार्थः, मरणरूपे अन्ते भवा मारणान्तिक्यः, आत्मनः शरीरस्य 10 जीवस्य च संलेखनाः तपसा रागादिजयेन च कृशीकरणानि आत्मसंलेखनाः, ततः पदत्रयस्य कर्मधारयः, तासाम्, झोसण त्ति जोषणा: सेवनाः करणानीत्यर्थः, ताभिरपश्चिममारणान्तिकात्मसंलेखनाजोषणाभिरात्मानं यथा च भावयित्वा, बहूनि भक्तानि अनशनतया च निर्भोजनतया छेदयित्वा व्यवच्छेद्य उपपन्ना मृत्वेति गम्यते, केषु ? कल्पवरेषु यानि विमानानि उत्तमानि तेषु, यथानुभवन्ति 15 सुरवरविमानानि वरपुण्डरीकाणीव वरपुण्डरीकाणि यानि तेषु, कानि? सौख्यान्यनुपमानानि क्रमेण भुक्त्वोत्तमानि, ततः आयुःक्षयेण च्युताः सन्तो यथा जिनमते बोधिं लब्ध्वा इति शेषः, लब्ध्वा च संयमोत्तमं प्रधानं संयम तमोरजओघविप्रमुक्ता अज्ञानकर्मप्रवाहविमुक्ता उपयन्ति यथा अक्षयम् अपुनरावृत्तिकं सर्वदुःखमोक्षं कर्मक्षयमित्यर्थः, तथोपासकदशास्वाख्यायत इति प्रक्रमः, एते चान्ये 20 चेत्यादि प्राग्वत् । नवरं संखेजाइं पयसयसहस्साई पदग्गेणं ति किलैकादश लक्षाणि द्विपञ्चाशच्च सहस्राणि पदानामिति ॥७॥ [सू० १४३] से किं तं अंतगडदसातो ? अंतगडदसासु णं अंतगडाणं णगराइं, उजाणाई, चेतियाई, वणसंडा, रायाणो, अम्मापितरो, समोसरणाई धम्मायरिया, धम्मकहातो, इहलोइया पारलोइया इविविसेसा, भोगपरिच्चाया, १. तपांसि च रित्राणि जे१ खं० । तपांसि च विचित्राणि हे२ ॥ २. “रपश्चिमामारणा खं० जे१,२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy