________________
[सू० १३९] समवायाङ्गवर्णनम् ।
२२१ इत्यादिवदिति, अथवा पल्लवा इव पल्लवाः अवयवास्तत्परिमाणं समणुगाइजइ त्ति समनुगीयते प्रतिपाद्यते ।
पूर्वोक्तमेवार्थं प्रपञ्चयन्नाह- ठाणगेत्यादि, ठाणगसयस्स त्ति स्थानकशतस्यैकादीनां शतान्तानां संख्यास्थानानाम्, तद्विशेषितात्मादिपदार्थानामित्यर्थः, तथा द्वादशविधो विस्तरो यस्याचारादिभेदेन तत् द्वादशविधविस्तरम्, तस्य, श्रुतज्ञानस्य 5 जिनप्रवचनस्य, किंभूतस्य ? जगजीवहितस्य, भगवतः श्रुतातिशययुक्तस्य समासेन संक्षेपेण समाचारः प्रतिस्थानं प्रत्यङ्गं च विविधाभिधेयाभिधायकत्वलक्षणो व्यवहारः आहिज्जइ त्ति आख्यायते । अथ समाचाराभिधानानन्तरं तत्र यदुक्तं तदभिधातुमाहतत्थ येत्यादि, तत्थ य त्ति तत्रैव समवाये इति योगः, नानाविधः प्रकारो येषां ते नानाविधप्रकाराः, तथाहि- एकेन्द्रियादिभेदेन पञ्चप्रकारा जीवाः, पुनरेकैकः प्रकार: 10 पर्याप्ता-ऽपर्याप्तादिभेदेन नानाविधः, जीवाजीवा य त्ति जीवा अजीवाश्च वर्णिता विस्तरेण महता वचनसन्दर्भण, अपरेऽपि च बहुविधा विशेषा जीवाजीवधर्मा वर्णिता इति योगः, तानेव लेशत आह- नरएत्यादि, नरय त्ति निवासनिवासिनामभेदोपचारान्नारकाः, ततश्च नारकतिर्यग्मनुजसुरगणानां सम्बन्धिन आहारादयः, तत्र आहारः ओजआहारादिराभोगिकानाभोगिकस्वरूपोऽनेकधा, 15 उच्छ्वासोऽनुसमयादिः कालभेदेनानेकधा, लेश्या कृष्णादिका षोढा, आवाससंख्या यथा नरकावासानां चतुरशीतिर्लक्षाणीत्यादिका, आयतप्रमाणमावासानामेव संख्यातासंख्यातयोजनायामता, उपलक्षणत्वादस्य विष्कम्भ-बाहल्य-परिधिमानान्यप्यत्र द्रष्टव्यानि, उपपात एकसमयेनैतावतामेतावता वा कालव्यवधानेनोत्पत्तिः, च्यवनमेकसमयेनैतावतामियता वा कालव्यवधानेन मरणम्, अवगाहना 20 शरीरप्रमाणमङ्गुलासंख्येयभागादि, अवधिः अङ्गुलासंख्येयभागक्षेत्रविषयादिः, वेदना शुभाशुभस्वभावा, विधानानि भेदा यथा सप्तविधा नारका इत्यादि, उपयोगः आभिनिबोधिकादिभदशविधः, योगः पञ्चदशविधः, इन्द्रियाणि पञ्च, १. 'इजंति समनुगीयंते प्रतिपाद्यते खं० । 'इजंति समनुगीयते प्रतिपाद्यते जे१ । 'इजत्ति समनुगीयते प्रतिपाद्यते जे२ ॥ २. नानाविधः नानाविध: जे२ ॥ ३. नरेत्यादि खसं० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org