________________
आचार्यश्री अभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे
- सक्क-तावस
आचरणमाचारः आचर्यत इति वा आचारः साध्वाचरितो ज्ञानाद्यासेवनविधिरिति भावार्थः, एतत्प्रतिपादको ग्रन्थोऽप्याचार एवोच्यते । आयारेणं ति अनेनाचारेण करणभूतेन श्रमणानामाचाराद्याख्यायत इति योगः, अथवा आचारेऽधिकरणभूते णमिति वाक्यालङ्कारे श्रमणानां तपःश्रीसमालिङ्गितानां निर्ग्रन्थानां 5 सबाह्याभ्यन्तरग्रन्थरहितानाम्, आह— श्रमणा निर्ग्रन्था एव भवन्तीति विशेषणं किमर्थमिति ?, उच्यते, शाक्यादिव्यवच्छेदार्थम्, उक्तं च- निग्गंथ-स गेरुय-आजीव पंचहा समण [पिण्डनि० ४४५ ]त्ति, तत्राऽऽचारो ज्ञानाद्यनेकभेदभिन्नः, गोचरो भिक्षाग्रहणविधिलक्षणः, विनयो ज्ञानादिविनयः, वैनयिकं तत्फलं कर्म्मक्षयादि, स्थानं कायोत्सर्गोपवेशन - शयनभेदात् त्रिरूपम्, गमनं विहारभूम्यादिषु गतिः, 10 चङ्क्रमणम् उपाश्रयान्तरे शरीरश्रमव्यपोहाद्यर्थमितस्ततः सञ्चरणम्, प्रमाणं भक्तपाना-ऽभ्यवहारोपध्यादेर्मानम्, योगयोजनं स्वाध्याय - प्रत्युपेक्षणादिव्यापारेषु परेषां नियोजनम्, भाषा संयतभाषा सत्या - ऽसत्यामृषारूपा, समितयः ईर्यासमित्याद्याः पञ्च, गुप्तयो मनोगुप्त्यादयस्तिस्रः, तथा शय्या च वसतिरुपधिश्च वस्त्रादिको भक्तं च अशनादि पानं च उष्णोदकादीति द्वन्द्वः, तथा उद्गमोत्पादनैषणालक्षणानां दोषाणां 15 विशुद्धिः अभाव उद्द्मोत्पादनैषणाविशुद्धिः, ततः शय्यादीनामुद्रमादिविशुद्धया शुद्धानां तथाविधकारणेऽशुद्धानां च ग्रहणं शय्यादिग्रहणम्, तथा व्रतानि मूलगुणा नियमाः उत्तरगुणास्तपउपधानं द्वादशविधं तपः, तत आचारश्च गोचरश्चेत्यादि यावद् गुप्तयश्च शय्यादिग्रहणं च व्रतानि च नियमाश्च तपउपधानं चेति समाहारद्वन्द्वस्ततस्तच्च तत् सुप्रशस्तं चेति कर्म्मधारयः, एतत् सर्वमाख्यायते अभिधीयते । तेषु 20 चाऽऽचारादिपदेषु यत्र क्वचिदन्यतरोपादाने अन्यतरस्य गतार्थस्याभिधानं तत् सर्वं तत्प्राधान्यख्यापनार्थमेवेत्यवसेयमिति ।
२१०
१. “निग्गंथ - सक्क - तावस गेरुय आजीव पंचहा समणा । तेसि परिवेसणाए लोभेण वणिज्ज को अप्पं ? || ४४५।। व्या०- निर्ग्रन्थाः साधवः, शाक्याः मायासूनवीयाः, तापसाः वनवासिनः पाखण्डिनः, गैरुका: गेरुकरञ्जितवाससः परिव्राजकाः, आजीवकाः गोशालकशिष्या इति पञ्चधा पञ्चप्रकाराः श्रमणा भवन्ति, एतेषां च यथायोगं गृहिगृहेषु समागतानां परिवेषणे भोजनप्रदाने क्रियमाणे सति कोऽप्याहारलम्पटः साधुः लोभेन आहारादिलुब्धतया वनति शाक्यादिभक्तमात्मानं दर्शयति, तद्भक्तगृहिणः पुरत इति सामर्थ्यगम्यम् ||४४५ || ” - इति पिण्डनिर्युक्तौ मलयगिरिसूरिविरचितायां वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org