________________
[सू० १३६] आचाराङ्गवर्णनम् ।
२०९ संखेजा सिलोगा, संखेजातो निजुत्तीतो । से णं अंगट्टयाए पढमे अंगे, दो सुतक्खंधा, पणुवीसं अज्झयणा, पंचासीती उद्देसणकाला, पंचासीई समुद्देसणकाला, अट्ठारस पदसहस्साइं पदग्गेणं पण्णत्ते । संखेजा अक्खरा, अणंता गमा, अणंता पजवा, परित्ता तसा, अणंता थावरा, सासया कडा णिबद्धा णिकाइता जिणपण्णत्ता भावा आघविनंति पण्णविज्जति परूविज्जति 5 दंसिर्जति निदंसिर्जति उवदंसिर्जति । से एवंआता, एवंणाता, एवंविण्णाता। एवं चरणकरणपरूवणया आघविजति पण्णविजति परूविजति दंसिजति निदंसिजति उवदंसिजति । सेत्तं आयारे ।
[टी०] इह य एते अनन्तरं संख्याक्रमसम्बन्धमात्रेण सम्बद्धा विविधा वस्तुविशेषा उक्तास्त एव विशिष्टतरसम्बन्धसम्बद्धा द्वादशाङ्गे प्ररूप्यन्त इति द्वादशाङ्गस्यैव 10 स्वरूपमभिधित्सुराह- दुवालसंगे इत्यादि, अथवोत्तरोत्तरसंख्याक्रमसंबद्धार्थप्ररूपणमनन्तरमकारि, साम्प्रतं संख्यामात्रसंबद्धपदार्थप्ररूपणायोपक्रम्यते- दुवालसंगे इत्यादि, तत्र श्रुतपरमपुरुषस्याङ्गानीवाङ्गानि द्वादशाऽङ्गानि आचारादीनि यस्मिंस्तद् द्वादशाङ्गम्, गुणानां गणोऽस्यास्तीति गणी आचार्यः, तस्य पिटकमिव पिटकं सर्वस्वभाजनं गणिपिटकम्, अथवा गणिशब्दः परिच्छेदवचनः, तथा चोक्तम्- 15
आयारम्मि अहीए जं नाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं ॥ [आंचा० नि० १०]
परिच्छेदस्थानमित्यर्थः, ततश्च परिच्छेदसमूहो गणिपिटकम्, अत्र चैवं पदघटना - यदेतद् गणिपिटकं तत् द्वादशाङ्गं प्रज्ञप्तम्, तद्यथा- आचारः सूत्रकृत इत्यादि।
से किं तमित्यादि, अथ किं तदाचारवस्तु ? यद्वा अथ कोऽयमाचारः ? 20 १. “यस्मादाचाराध्ययनात् क्षान्त्यादिकश्चरण-करणात्मको वा श्रमणधर्मः परिज्ञातो भवति तस्मात् सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आद्यं प्रधानं वा गणिस्थानमिति" इति शीलाचार्यविरचितायामाचाराङ्गटीकायां प्रथमेऽध्ययने प्रथमे उद्देशके ॥ २. आचारादीनां दृष्टिवादपर्यन्तानां द्वादशानामङ्गानां स्वरूपं नन्दीसूत्रस्य हारिभद्रीवृत्त्यनुसारेण प्रायः सर्वं वर्णितमत्र, अतो विशेषजिज्ञासुभिः नन्दीसूत्रस्य हरिभद्रसूरिभिर्विरचिता वृत्तिरवलोकनीया । यद्यपि नन्दीसूत्रस्य जिनदासगणिमहत्तरविरचितायां चूर्णावपि एतादृशं किञ्चिद् वर्णनमुपलभ्यते, तथापि इयम् अभयदेवसूरिभिर्विरचिता वृत्तिः बहुषु स्थानेषु प्रायोऽक्षरशः नन्दीहारिभद्रीवृत्तिमनुसरति इति ध्येयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org