________________
२०४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे २००० स्थानकम् । महानद्या उभयोः कूलयो यमकाभिधानौ पर्वतौ स्तः, ते च पञ्चस्वप्युत्तरकुरुषु द्वयोर्द्वयोर्भावाद् दश । एवं चित्त-विचित्तकूडा वि त्ति पञ्चसु देवकुरुषु यमकवत् तत्सद्भावात् पञ्च चित्रकूटाः पञ्च चे विचित्रकूटा इति ।
सव्वे वि णमित्यादि, सर्वेऽपि वृत्ता वैताढ्या विंशतिः शब्दापात्यादयः। सव्वे 5 वि णं हरीत्यादि, हरिकूटं विद्युत्प्रभाभिधाने गजदन्ताकारवक्षस्कारपर्वते हरिसहकूटं तु मालवद्वक्षस्कारे, एतानि च पञ्चस्वपि मन्दरेषु भावात् पञ्च पञ्च भवन्ति सहस्रोच्छ्रितानि च, वक्खारकूडवज त्ति शेषवक्षस्कारकूटेष्वेवमुच्चत्वं नास्ति, एतेष्वेवास्तीत्यर्थः । एवं बलकूडा वि त्ति पञ्चसु मन्दरेषु पञ्च नन्दनवनानि तेषु प्रत्येकमैशान्यां दिशि
बलकूटाभिधानं कूटमस्ति, ततः पञ्च, तानि सहस्रोच्छ्रितानि च, नंदनकूडवज त्ति 10 शेषाणि नन्दनवनेषु प्रत्येकं पूर्वादिदिग्विदिग्व्यवस्थितानि चत्वारिंशत्संख्यानि
नन्दनकूटानि वर्जयित्वा, तानि साहम्रिकाणि न भवन्तीत्यर्थः । अरहेत्यादि, कुमारत्वे त्रीणि वर्षशतान्यनगारत्वे सप्तेत्येवं दश शतानि । पउमद्दहपुंडरीयद्दह त्ति पद्मह्रदः श्रीदेवीनिवासो हिमवद्वर्षधरपर्वतोपरिवर्ती पुण्डरीकह्रदो लक्ष्मीदेवीनिवासः शिखरिवर्षधरोपरिवर्तीति ॥१०००॥११००॥ 15 [सू० ११५] महापउम-महापुंडरीयद्दहा णं दो दो जोयणसहस्साई आयामेणं पण्णत्ता ।
[सू० ११६] इमीसे णं रतणप्पभाए पुढवीए वतिरकंडस्स उवरिल्लाओ चरिमंताओ लोहितक्खस्स कंडस्स हेढिल्ले चरिमंते एस णं तिण्णि
जोयणसहस्साइं अबाहाते अंतरे पण्णत्ते । 20 [सू० ११७] तिगिंच्छि-केसरिद्दहा णं दहा चत्तारि चत्तारि जोयणसहस्साई आयामेणं पण्णत्ता ।
[टी०] तथा महापद्म-महापुण्डरीकह्रदौ महाहिमवद्रुक्मिवर्षधरयोरुपरिवर्तिनौ ह्री-बुद्धिदेव्योर्निवासभूताविति ॥२०००।।
इमीसे णं रयणेत्यादि, अयमिह भावार्थः- रत्नप्रभापृथिव्याः प्रथमस्य १. च नास्ति खं० जे१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org