SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ १९४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे रेवतिपढमजेट्ठपजवसाणाणं एक्कूणवीसाए नक्खत्ताणं अट्ठाणउतिं तारातो तारग्गेणं पण्णत्तातो । [टी०] अथाष्टनवतिस्थानके किञ्चिदभिधीयते, नंदणवणेत्यादेर्भावार्थोऽयम्नन्दनवनं मेरोः पञ्चयोजनशतोच्छितप्रथममेखलाभावि पञ्चयोजनशतोच्छितं 5 तद्गतपञ्चयोजनशतोच्छितकूटाष्टकस्य तद्ग्रहणेन ग्रहणात्, तथा पण्डकवनं च मेरुशिखरव्यवस्थितम्, अतो नवनवत्या मेरोरुच्चस्त्वस्य आद्ये सहस्रे अपकृष्टे यथोक्तमन्तरं भवतीति । गोस्तुभसूत्रभावार्थः पूर्ववत्, नवरं गोस्तुभविष्कम्भसहस्रे क्षिप्ते यथोक्तमन्तरं भवतीति। वेयड्ढस्स णमित्यादिर्यः केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, सम्यक्पाठश्चायम्- दाहिणभरहड्वस्स णं धणुपट्टे अट्ठाणउइंजोयणसयाइं किंचूणाई 10 आयामेणं पण्णत्ते इति, यतोऽन्यत्रोक्तम् नव चेव सहस्साई छावट्ठाई सयाई सत्त भवे । . सविसेस कला चेगा दाहिणभरहद्धधणुपट्टे ॥ [बृहत्क्षेत्र० ४३] [९६०७ १९ ] ति । वैताढ्यधनुःपृष्ठं त्वेवमुक्तमन्यत्र दस चेव सहस्साई सत्तेव सया हवंति तेयाला । 15 धणुपट्टे वेयढे कला य पण्णारस हवंति ॥ [बृहत्क्षेत्र० ४५] [१०७४३ २२] । __ उत्तराओ णमित्यादि, भावार्थः पूर्वोक्तानुसारेणावसेयः, नवरमिह एक्वेतालीसइमे इति केषुचित् पुस्तकेषु दृश्यते सोऽपपाठः, एगूणपंचासइमे त्ति एकोनपञ्चाशतो द्विगुणत्वे अष्टनवतिर्भवति, द्वयगुणनं च प्रतिमण्डलं मुहर्तेकषष्टिभागद्वयवृद्धेर्दिनस्य रात्रेर्वेति । रेवईत्यादि, रेवतिः प्रथमा येषां तानि रेवतिप्रथमानि तथा ज्येष्ठा पर्यवसाने 20 येषां तानि ज्येष्ठापर्यवसानानि, तानि च तानि चेति कर्मधारयः, तेषामेकोनविंशतेर्नक्षत्राणामष्टनवतिस्तारास्तारापरिमाणेन प्रज्ञप्ताः, तथाहिरेवतीनक्षत्रं द्वात्रिंशत्तारम् ३२, अश्विनी त्रितारम् ३५, भरणी त्रितारम् ३८, कृत्तिका षट्तारम् ४४, रोहिणी पञ्चतारम् ४९, मृगशिरस्त्रितारम् ५२, आद्रा(H?) एकतारम् ५३, पुनर्वसू पञ्चतारम् ५८, पुष्यस्त्रितारम् ६१, अश्लेषा षट्तारम् ६७, मघा सप्ततारम् 25 ७४, पूर्वफाल्गुनी द्वितारम् ७६, उत्तरफाल्गुनी द्वितारम् ७८, हस्तः पञ्चतारम् ८३, १. पण्णरस हे२ ॥ २. उत्तराफा' जे२ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy