________________
१८२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे षडशीतिस्थानकम् ।
तथा धातकीखण्डमन्दरौ सहस्रमवगाढौ चतुरशीतिः सहस्राण्युच्छ्रिताविति पञ्चाशीतिर्योजनसहस्राणि सर्वाग्रेण भवतः, पुष्करार्द्धमन्दरावप्येवम्, नवरं सूत्रे नाभिहितौ विचित्रत्वात् सूत्रगतेरिति । तथा रुचको रुचकाभिधानस्त्रयोदशद्वीपान्तर्गतः प्राकाराकृती रुचकद्वीपविभागकारितया स्थितः, अत एव माण्डलिकपर्वतो मण्डलेन व्यवस्थितत्वात्, 5 स च सहस्रमवगाढश्चतुरशीतिरुच्छ्रित इति पञ्चाशीतिः सहस्राणि सर्वाग्रेणेति ।
' तथा नन्दनवनस्य मेरोः पञ्चयोजनशतोच्छ्रितायां प्रथममेखलायां व्यवस्थितस्याऽधस्त्याच्चरमान्तात् सौगन्धिककाण्डस्य रत्नप्रभापृथिव्याः खरकाण्डाभिधानप्रथमकाण्डस्यावान्तरकाण्डभूतस्याष्टमस्य सौगन्धिकाभिधानरत्नमयस्य सौगन्धिककाण्डस्याधस्त्यश्चरमान्तः पञ्चाशीतिर्योजनशतान्यन्तरमाश्रित्य भवति, 10 कथम् ? पञ्च शतानि मेरोः सम्बन्धीनि प्रत्येकं च सहस्रप्रमाणत्वादवान्तरकाण्डानामष्टमकाण्डमशीतिः शतानीति ॥८५॥
[सू० ८६] सुविहिस्स णं पुप्फदंतस्स अरहओ छलसीतिं गणा छलसीतिं गणहरा होत्था ।
सुपासस्स णं अरहतो छलसीतिं वाइसया होत्था । ___ 15 दोच्चाए णं पुढवीए बहुमज्झदेसभागाओ दोच्चस्स घणोदहिस्स हेट्ठिल्ले
चरिमंते एस णं छलसीतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते ।
[टी०] अथ षडशीतिस्थानके किमपि लिख्यते, तत्र सुविधेः नवमजिनस्येह षडशीतिर्गणा गणधराश्चोक्ता आवश्यके तु अष्टाशीतिरिति मतान्तरमिदम् । तथा द्वितीया पृथिवी शर्कराप्रभा, सा च बाहल्यतो द्वात्रिंशत्सहस्राधिकलक्षमाना तदर्द्ध 20 षट्षष्टिः सहस्राणि घनोदधिश्च तदधोवर्ती द्वितीयपृथिवीसम्बन्धित्वात् द्वितीयो विंशतिः सहस्राणि बाहल्यत इति षडशीतिर्यथोक्तमन्तरं भवतीति ॥८६॥
[सू० ८७] मंदरस्स णं पव्वतस्स पुरथिमिल्लातो चरिमंतातो गोथुभस्स आवासपव्वयस्स पच्चत्थिमिल्ले चरिमंते एस णं सत्तासीतिं जोयणसहस्साई अबाहाए अंतरे पण्णत्ते । मंदरस्स [णं पव्वतस्स] दक्खिणिल्लातो चरिमंतातो १. दृश्यतां पृ० १४० टि० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org