________________
१७० आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे अष्टसप्ततिस्थानकम् ।
सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ [भगवती० ६७४] त्ति ॥७७॥ [सू० ७८] सक्स्स णं देविंदस्स देवरण्णो वेसमणे महाराया अट्ठसत्तरीए सुवण्णकुमार-दीवकुमारावाससतसहस्साणं आहेवच्चं पोरेवच्चं भट्टित्तं सामित्तं 5 महारायत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे विहरति ।
थेरे णं अकंपिते अट्ठत्तरि वासाइं सव्वाउयं पालयित्ता सिद्धे जाव सव्वदुक्खप्पहीणे ।
उत्तरायणनियट्टे णं सूरिए पढमातो मंडलातो एगूणचत्तालीसइमे मंडले अट्टत्तरिं एगसट्ठिभाए दिवसखेत्तस्स निवुड्ढेत्ता रयणिखेत्तस्स अभिनिवुवेत्ता णं 10 चारं चरति, एवं दक्खिणायणनिय? वि ।
[टी०] अथाष्टसप्ततिस्थानके किञ्चित् लिख्यते, सक्कस्सेत्यादि, वेसमणे महाराय त्ति सोम-यम-वरुण-वैश्रमणाभिधानानां लोकपालानां चतुर्थ उत्तरदिक्पालः, स हि वैश्रमणदेवनिकायिकानां सुपर्णकुमारदेव-देवीनां द्वीपकुमारदेव-देवीनां व्यन्तर-व्यन्तरीणां
चाधिपत्यं करोति, तदाधिपत्याच्च तन्निवासानामप्याधिपत्यमसौ करोतीत्युच्यते 15 अष्टसप्तत्याः सुपर्णकुमार-द्वीपकुमारावासशतसहस्राणामिति, तत्र सुपर्णकुमाराणां
दक्षिणायामष्टत्रिंशद् भवनलक्षाणि द्वीपकुमाराणां च चत्वारिंशदित्येवमष्टसप्ततिरिति, द्वीपकुमाराधिपत्यमेतस्य भगवत्यां न दृश्यते, इह तूक्तमिति मतान्तरमिदम्, आहेवच्चं १. °रिए जे१ खं० ॥२. जम्बूद्वीपप्रज्ञप्तौ द्वितीये वक्षस्कारे, अनुयोगद्वारसूत्रे ३६७ तमे सूत्रेऽपि च इदं गाथाद्वयमस्ति। "हट्ठस्स गाहा । हृष्टस्य तुष्टस्य अनवकल्यस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तोः मनुष्यादेरेक उच्छ्वासयुक्तो निःश्वासः उच्छ्वासनिःश्वासः, एष प्राण उच्यते, शोकजरादिभिरस्वस्थस्य जन्तोरुच्छ्वासनिःश्वासः त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानम् ॥ सत्त पाणूणीत्यादि श्लोकः, सप्त प्राणा यथोक्तस्वरूपाः स एकः स्तोकः, सप्त स्तोकाः स एको लवः, लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहूर्तो व्याख्यातः ॥” इति अनुयोगद्वारसूत्रे मलधारिहेमचन्द्रसूरिविरचितायां वृत्तौ ॥ ३. दिक्कुमार' इति सर्वेषु हस्तलिखितादर्शेषु पाठः । एतदनुसारेण 'द्वीपकुमारदेव-देवीनां दिक्कुमारदेव-देवीनां' इति सम्पूर्णः पाठोऽत्र टीकायां भवेदिति संभाव्यते । दृश्यतामधस्तनमत्रत्यं टिप्पणम् ॥ ४. भगवतीसूत्रस्य तृतीये शतके सप्तमे उद्देशके ईदृशं सूत्रमुपलभ्यते- “सक्कस्स णं देविंदस्स देवरण्णो वेसमणस्स महारण्णो इमे देवा आणा-उववायवयण-निद्देसे चिट्ठति, तंजहा- वेसमणकाइया ति वा वेसमणदेवयकाइया ति वा सुवण्णकुमारा सुव्वणकुमारीओ दीवकुमारा दीवकुमारीओ दिसाकुमारा दिसाकुमारीओ वाणमंतरा वाणमंतरीओ जे याऽवन्ने तहप्पगारा सव्वे ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org