________________
१६९
[सू० ७६-७७]
षट्सप्तति-सप्तसप्ततिस्थानके । दीव-दिसा-उदहीणं विज्जुकुमारिंद-थणियमग्गीणं । छण्हं पि जुगलयाणं छावत्तरि मो सतसहस्सा ॥५९॥ [टी०] अथ षट्सप्ततिस्थानके किञ्चित् लिख्यते, तत्र विद्युत्कुमाराणां भवनावासलक्षाणि दक्षिणायां चत्वारिंशदुत्तरस्यां तु षट्त्रिंशदिति षट्सप्ततिरिति । एवमिति इदमेव भवनमानं शेषाणां द्वीपकुमारादिभवनपतिनिकायानाम्, इहार्थे गाथा-दीवेत्यादि 5 युगलानामिति दक्षिणोत्तरनिकायभेदेन युगलम्, निकाये निकाये भवतीति ॥७६॥
[सू० ७७] भरहे राया चाउरंतचक्कवट्टी सत्तत्तरिं पुव्वसतसहस्साई कुमारवासमज्झावसित्ता महरायाभिसेयं पत्ते ।
अंगवंसातो णं सत्तत्तरि रायाणो मुंडे जाव पव्वइया । गद्दतोय -तुसियाणं देवाणं सत्तत्तरिं देवसहस्सा परिवारो पण्णत्ता । 10 एगमेगे णं मुहुत्ते सत्तत्तरिं लवे लवग्गेणं पण्णत्ते ।
[टी०] अथ सप्तसप्ततिस्थानके विवियते किञ्चित्, तत्र भरतचक्रवर्ती ऋषभस्वामिनः षट्सु पूर्वलक्षेष्वतीतेषु जातस्त्र्यशीतितमे च तत्रातीते भगवति च प्रव्रजिते राजा संवृत्तः, ततश्च त्र्यशीत्याः षट्सु निष्कर्षितेषु सप्तसप्ततिस्तस्य कुमारवासो भवतीति । अङ्गवंश: 15 अङ्गराजसन्तानस्तस्य सम्बन्धिनः सप्तसप्तती राजानः प्रव्रजिताः । गद्दतोयेत्यादि, ब्रह्मलोकस्याधोवर्तिनीष्वष्टासु कृष्णराजिष्वष्टौ सारस्वतादयो लोकान्तिकाभिधाना देवनिकाया भवन्ति, तत्र गर्दतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन सप्तसप्ततिर्देवसहस्राणि परिवारः प्रज्ञप्तानीति । तथैकैको मुहूर्त्तः सप्तसप्ततिं लवान् लवाग्रेण लवपरिमाणेन प्रज्ञप्तः, कथम् ? उच्यते
हट्ठस्स अणवगल्लस्स, णिरुवकिट्ठस्स जंतुणो ।
एगे ऊसासनीसासे, एस पाणु त्ति वुच्चई ॥ १. “गद्दतोय-तुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पण्णत्ता' इति स्थानाङ्गसूत्रे सू० ५७६ ॥
20
२. सप्ततिलवान जे२ हे१.२ ॥ ३. वुच्चड़ जे२ हे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org