________________
[सू० ६२] द्विषष्टिस्थानकम् ।
१५१ चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि दिनानाम् अष्टादश शतानि त्रिंशदुत्तराणि १८३०, ऋतुमासश्च त्रिंशताऽहोरात्रैर्भवतीति त्रिंशता भागहारे लब्धा एकषष्टिः ऋतुमासा इति ।।
मंदरस्सेत्यादि, इह मेरुर्नवनवतियोजनसहस्रप्रमाणो द्विधा विभक्तः, तत्र प्रथमो भाग एकषष्टिः सहस्राण्युक्तः, द्वितीयस्तु अष्टत्रिंशत्स्थानकेऽष्टत्रिंशदिति, क्षेत्रसमासे तु 5 कन्देन सह लक्षप्रमाणस्त्रिधा विभक्तः, तत्र प्रथमं काण्डं सहस्रं द्वितीयं त्रिषष्टिस्तृतीयं षट्त्रिंशदिति । चंदमंडले इत्यादि चन्द्रमण्डलं चन्द्रविमानं णमित्यलङ्कृतौ एगसट्ठि त्ति योजनस्यैकषष्टितमैर्भागैर्विभाजितं विभागैर्व्यवस्थापितं समांशं समविभागं प्रज्ञप्तम्, न विषमांशम्, योजनस्यैकषष्टिभागानां षट्पञ्चाशद्भागप्रमाणत्वात् तस्यावशिष्टस्य च भागभागस्याविद्यमानत्वादिति । एवं सूरस्स वि त्ति एवं सूर्यस्यापि मण्डलं 10 वाच्यम्, अष्टचत्वारिंशदेकषष्टिभागमात्रं हि तत्, न चापरमंशान्तरं तस्याप्यस्तीति समांशतेति ॥६१॥
[सू० ६२] पंचसंवच्छरिए णं जुगे बावडिं पुण्णिमातो बावहिँ अमावासातो [पण्णत्तातो] ।
वासुपुज्जस्स णं अरहतो बावहिँ गणा बावढि गणहरा होत्था । 15 सुक्कपक्खस्स णं चंदे बावडिं बावडिं भागे दिवसे दिवसे परिवहृति, ते चेव बहुलपक्खे दिवसे दिवसे परिहायति ।
सोहम्मीसाणेसु कप्पेसु पढमे पत्थडे पढमावलियाए एगमेगाए दिसाए बावहिँ बावडिं विमाणा पण्णत्ता ।।
सव्वे वेमाणियाणं बावहिँ विमाणपत्थडा पत्थडग्गेणं पण्णत्ता। 20
टी०] अथ द्विषष्टिस्थानकम्, पंचेत्यादि, तत्र युगे त्रयश्चन्द्रसंवत्सरा भवन्ति, तेषु षट्त्रिंशत् पौर्णमास्यो भवन्ति, द्वौ चाभिवर्द्धितसंवत्सरौ भवतः, तत्र चाभिवर्द्धितसंवत्सरस्त्रयोदशभिश्चन्द्रमासैर्भवतीति तयोः षड्विंशतिः पौर्णमास्य इत्येवं द्विषष्टिस्ता भवन्ति इत्येवममावास्या अपीति । वासुपूज्यस्येह द्विषष्टिर्गणा गणधराश्चोक्ता १. अत्र दृश्यतां पृ० १३१ पं० १८ ॥ २. तस्य च भागभागस्या खं० जे१ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org