________________
१४४ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे त्रिपञ्चाशत्स्थानकम् । झिमे त्ति जैम्यम् । तथा लोभादीनि चतुर्दश लोभकषायस्य, 'भिज्झा अभिज्झ त्ति अभिध्यानमभिध्येत्यस्य तीतं पिधानमित्यादाविव वैकल्पिके अकारलोपे भिध्याऽभिध्या चेति शब्दभेदान्नामद्वयमिति ।
गोथुभेत्यादि, गोस्तुभस्य प्राच्यां लवणसमुद्रमध्यवर्त्तिनो वेलन्धरनागराज5 निवासभूतपर्वतस्य पौरस्त्याच्चरमान्तादपसृत्य वडवामुखस्य महापातालस्य महापातालकलशस्य पाश्चात्त्यश्चरमान्तो येन व्यवधानेन भवतीति गम्यते, एस णं ति एतदन्तरमबाधया व्यवधानलक्षणमित्यर्थः, द्विपञ्चाशद्योजनसहस्राणि भवन्तीत्यक्षरघटना, भावार्थस्त्वयम्- इह लवणसमुद्रं पञ्चनवतिं योजनसहस्राण्यवगाह्य पूर्वादिषु दिक्षु चत्वारः क्रमेण वडवामुख-केतुक-जूयकेश्वराभिधाना महापातालकलशा 10 भवन्ति, तथा जम्बूद्वीपपर्यन्ताद् द्विचत्वारिंशद्योजनसहस्राण्यवगाह्य सहस्रविष्कम्भाश्चत्वार
एव वेलन्धरनागराजपर्वता गोस्तुभादयो भवन्ति, ततश्च पञ्चनवत्यास्त्रिचत्वारिंशत्यपकर्षितायां द्विपञ्चाशत् सहस्राण्यन्तरं भवति । तथा सौधर्मे द्वात्रिंशद्विमानानां लक्षाणि, सनत्कुमारे द्वादश, माहेन्द्रे चाष्टाविति सर्वाणि द्विपञ्चाशत् ॥५२॥
[सू० ५३] देवकुरु-उत्तरकुरियातो णं जीवातो तेवण्णं तेवण्णं जोयण15 सहस्साइं साइरेगाई आयामेणं पण्णत्तातो ।
महाहिमवंत-रुप्पीणं वासहरपव्वयाणं जीवातो तेवण्णं तेवण्णं जोयणसहस्साइं नव य एक्कतीसे जोयणसते छच्च एकूणवीसतिभाए जोयणस्स आयामेणं पण्णत्तातो ।
. समणस्स णं भगवतो महावीरस्स तेवण्णं अणगारा संवच्छरपरियाया पंचसु 20 अणुत्तरेसु महतिमहालएसु महाविमाणेसु देवत्ताते उववन्ना ।
संमुच्छिमउरगपरिसप्पाणं उक्कोसेणं तेवण्णं वाससहस्साइं ठिती पण्णत्ता। [टी०] त्रिपञ्चाशत्स्थानके लिख्यते । महाहिमवंतेत्यादिसूत्रे संवादगाथातेवन्नसहस्साइं नव य सए जोयणाण इगतीसे ।
जीवा महाहिमवओ अद्धकला छक्कलाओ ॥ बृहत्क्षेत्र० ५६] त्ति । 25 संवच्छरपरियाग त्ति संवत्सरमेकं यावत् पर्यायः प्रव्रज्यालक्षणो येषां ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org