SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ १३५ 5 [सू० ४२] द्विचत्वारिंशत्स्थानकम् । पुरिथिमिल्लचरिमंताओ त्ति जगतीबाह्यपरिधेरपसृत्य गोस्तुभस्याऽऽवासपर्वतस्य वेलंधरनागराजसम्बन्धिनः पाश्चात्त्यश्चरमान्तः चरमविभागो यावताऽन्तरेण भवति एस णं ति एतदन्तरं द्विचत्वारिंशद्योजनसहस्राणि प्रज्ञप्तम्, अन्तरशब्देन विशेषोऽप्यभिधीयते इत्यत आह- आबाहाए त्ति व्यवधानापेक्षया यदन्तरं तदित्यर्थः। कालायणे त्ति धातकीखण्डपरिवेष्टके कालोदाभिधाने समुद्रे । गइनामेत्यादि, गतिनाम यदुदयान्नारकादित्वेन जीवो व्यपदिश्यते, जातिनाम यदुदयादेकेन्द्रियादिर्भवति, शरीरनाम यदुदयादौदारिकादिशरीरं करोति, यदुदयादङ्गानां शिरःप्रभृतीनाम् उपाङ्गानां च अमुल्यादीनां विभागो भवति तच्छरीराङ्गोपाङ्गनाम, तथा औदारिकादिशरीरपुद्गलानां पूर्वबद्धानां बध्यमानानां च सम्बन्धकारणं शरीरबन्धननाम, तथा औदारिकादिशरीरपुद्गलानां गृहीतानां यदुदयाच्छरीररचना भवति 10 तच्छरीरसङ्घातनाम, तथाऽस्थ्नां यतस्तथाविधशक्तिनिमित्तभूतो रचनाविशेषो भवति तत् संहनननाम, संस्थानं समचतुरस्रादिलक्षणं यतो भवति तत् संस्थाननाम, तथा यदुदयाद्वर्णादिविशेषवन्ति शरीराणि भवन्ति तद् वर्णादिनाम, तथा यदुदयादगुरुलघु स्वं स्वं शरीरं जीवानां भवति तदगुरुलघुनाम, तथा यतोऽङ्गावयवः प्रतिजिह्विकादिरात्मोपघातको जायते तदुपघातनाम, तथा यतोऽगावयव एव विषात्मको 15 दंष्ट्रा-त्वगादिः परेषामुपघातको भवति तत् पराघातनाम, तथा यदुदयादन्तरालगतौ जीवो याति तदानुपूर्वीनाम, तथा यदुदयादुच्छ्वासनिःश्वासनिष्पत्तिर्भवति तदुच्छ्वासनाम, तथा यदुदयाज्जीवस्तापवच्छरीरो भवति तदातपनाम, यथाऽऽदित्यबिम्बपृथिवीकायिकानाम्, तथा यतोऽनुष्णोद्द्योतवच्छरीरो भवति तदुद्द्योतनाम, तथा यतः शुभेतरगमनयुक्तो भवति तद्विहायोगतिनाम, सनामादीन्यष्टौ 20 प्रतीतार्थानि, तथा यतः स्थिराणां दन्ताद्यवयवानां निष्पत्तिर्भवति तत् स्थिरनाम, यतश्च भू-जिह्वादीनामस्थिराणां निष्पत्तिर्भवति तदस्थिरनाम, एवं शिरःप्रभृतीनां शुभानां तच्छुभनाम, पादादीनामशुभानामशुभनाम इति, शेषाणि प्रतीतानि, नवरं यदुदयाज्जातौ १. पुरित्थमि हे२ विना ॥ २. पाश्चात्यचर' खं० हे२ ॥ ३. स्वं शरीरं जे२ ॥ ४. दयान्तराल' हे१,२ विना ॥ ५. तथा शिरःप्र हे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy