________________
१२८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे सुसम्बन्धस्य सतः प्रसरणम्, अथवाऽसम्बद्धाधिकारित्वा-ऽतिविस्तरयोरभावः १६, अन्योन्यप्रगृहीतत्वं परस्परेण पदानां वाक्यानां वा सापेक्षता १७, अभिजातत्वं वक्तुः प्रतिपाद्यस्य वा भूमिकानुसारिता १८, अतिस्निग्ध-मधुरत्वं घृत-गुडादिवत् सुखकारित्वम्
१९, अपरमर्मवेधित्वं परमर्मानुद्घट्टनस्वरूपत्वम् २०, अर्थ-धर्माभ्यासानपेतत्वम् 5 अर्थ-धर्मप्रतिबद्धत्वम् २१, उदारत्वम् अभिधेयार्थस्यातुच्छत्वं गुम्फगुणविशेषो वा
२२, परनिन्दात्मोत्कर्षविप्रयुक्तत्वमिति प्रतीतमेव २३, उपगतश्लाघत्वम् उक्तगुणयोगात् प्राप्तश्लाघता २४, अनपनीतत्वं कारक-काल-वचन-लिङ्गादिव्यत्ययरूपवचनदोषापेतता २५, उत्पादिताच्छिन्नकौतूहलत्वं स्वविषये श्रोतृणां जनितमविच्छिन्नं कौतुकं येन तत्तथा
तद्भावस्तत्त्वम् २६, अद्रुतत्वम् अनतिविलम्बितत्वं च प्रतीतम् २७-२८, विभ्रम10 विक्षेप-किलिकिञ्चितादिवियुक्तत्वम्, विभ्रमो वक्तृमनसो भ्रान्तता, विक्षेपः
तस्यैवाभिधेयार्थं प्रत्यनासक्तता, किलिकिञ्चितं रोषभयाभिलाषादिभावानां युगपदसकृत्करणमादिशब्दान्मनोदोषान्तरपरिग्रहस्तैर्विमुक्तं यत्तत्तथा, तद्भावस्तत्त्वम् २९, अनेकजातिसंश्रयाद्विचित्रत्वम्, इह जातयो वर्णनीयवस्तुस्वरूपवर्णनानि ३०,
आहितविशेषत्वं वचनान्तरापेक्षया ढौकितविशेषता ३१, साकारत्वं विच्छिन्नवर्ण-पद15 वाक्यत्वेनाकारप्राप्तत्वम् ३२, सत्त्वपरिगृहीतत्वं साहसोपेतता ३३, अपरिखेदितत्वम्
अनायाससम्भवः ३४, अव्युच्छेदित्वं विवक्षितार्थसम्यसिद्धिं यावदव्यवच्छिन्न
वचनप्रमेयतेति ३५ । • तथा दत्तः सप्तमवासुदेवः, नन्दनः सप्तमबलदेवः, एतयोश्चावश्यकाभिप्रायेण
षड्विंशतिर्धनुषामुच्चत्वं भवति, सुबोधं च तत्, यतोऽरनाथ-मल्लिस्वामिनोरन्तरे 20 तावभिहितौ, यतोऽवाचि- अर-मल्लिअंतरे दोण्णि केसवा पुरिसपुंडरीय-दत्त [आव० नि०
४२०] त्ति, अरनाथ-मल्लिनाथयोश्च क्रमेण त्रिंशत् पञ्चविंशतिश्च धनुषामुच्चत्वम्,
१. "विलम्बित्वं हे१ विना ।। २. "वियुक्तं वि जे१ ॥ ३. वस्तुरूप' खं० ॥ ४. वण्णेण वासुदेवा सव्वे नीला बला य सुक्किलया । एएसिं देहमाणं वुच्छामि अहाणुपुवीए ॥४०२|| पढमो धणूणऽसीई सत्तरी सट्ठी य पन्न पणयाला । अउणतीसं च धणू छव्वीस सोलसा दसेव ॥४०३।। - इति आवश्यकहारिभद्र्यां वृत्तौ ॥ ५. “अरश्च मल्लिश्च अरमल्ली तयोरन्तरम् अपान्तरालं तस्मिन्, द्वौ केशवौ भविष्यतः, कौ द्वौ इत्याह- पुरुषपुण्डरीकदत्तौ ॥" - इति आवश्यकस्य हारिभत्र्यां वृत्तौ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org