SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ १२६ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे प्रशान्तचित्रमानसा धर्म निशामयन्ति इति चतुर्विंशः २४, बृहद्वाचनायामिदमन्यदतिशयद्वयमधीयते, यदुत- अन्यतीर्थिकप्रावचनिका अपि च णं वन्दन्ते भगवन्तमिति गम्यते इति पञ्चविंशः २५, आगताः सन्तोऽर्हतः पादमूले निष्प्रतिवचना भवन्ति इति षड्विंशः २६, जओ जओ वि य णं ति यत्र यत्रापि 5 च देशे, तओ तओ त्ति तत्र तत्रापि च पञ्चविंशतौ योजनेषु, ईतिः धान्याधुपद्रवकारी प्रचुरमूषिकादिप्राणिगण इति सप्तविंशः २७, मारिः जनमरक इत्यष्टाविंशः २८, स्वचक्रं स्वकीयराजसैन्यम्, तदुपद्रवकारि न भवतीति एकोनत्रिंशः २९, एवं परचक्रं परराजसैन्यमिति त्रिंशः ३०, अतिवृष्टिः अधिकवर्ष इत्येकत्रिंशः ३१, अनावृष्टिः वर्षणाभाव इति द्वात्रिंशः ३२, दुर्भिक्षं दुष्काल इति त्रयस्त्रिंशः ३३, उप्पाइया वाहि 10 त्ति उत्पाताः अनिष्टसूचका रुधिरवृष्ट्यादयस्तद्धेतुका येऽनास्ते औत्पातिकास्तथा व्याधयो ज्वराद्यास्तदुपशमः अभाव इति चतुस्त्रिंशत्तमः ३४ । अत्र च पच्चाहरओ इत आरभ्य येऽभिहितास्ते प्रभामण्डलं च कर्मक्षयकृताः, शेषा भवप्रत्ययेभ्योऽन्ये देवकृता इति, एते च यदन्यथापि दृश्यन्ते तन्मतान्तरमवगन्तव्यमिति । चक्कवट्टिविजय त्ति चक्रवर्तिविजेतव्यानि क्षेत्रखण्डानि । उक्कोसपए चोत्तीसं 15 तित्थगरा समुप्पजंति त्ति समुत्पद्यन्ते सम्भवन्तीत्यर्थः, न त्वेकसमये जायन्ते, चतुर्णामेवैकदा जन्मसम्भवात्, तथाहि - मेरौ पूर्वापरशिलातलयोझै द्वे एव सिंहासने भवतोऽतो द्वावेव द्वावेवाभिषिच्येते अतो द्वयोर्द्वयोरेव जन्मेति, दक्षिणोत्तरयोस्तु क्षेत्रयोस्तदानी दिवससद्भावात् न भरतैरवतयोर्जिनोत्पत्तिरर्द्धरात्र एव जिनोत्पत्तेरिति । पढमेत्यादि प्रथमायां पृथिव्यां त्रिंशन्नरकावासानां लक्षाणि, पञ्चम्यां त्रीणि षष्ठ्यां पञ्चोनं 20 लक्षं सप्तम्यां पञ्च नरकाः, एवं सर्वमीलने चतुस्त्रिंशल्लक्षाणि भवन्तीति ॥३४॥ [सू० ३५] पणतीसं सच्चवयणाइसेसा पण्णत्ता । कुंथू णं अरहा पणतीसं धणूई उडुंउच्चत्तेणं होत्था । दत्ते णं वासुदेवे पणतीसं धणूइं उडंउच्चत्तेणं होत्था । नंदणे णं बलदेवे पणतीसं धणूइं उटुंउच्चत्तेणं होत्था । १. इति नास्ति जे१ खं० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy