SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ [सू० ३४] चतुस्त्रिंशत्स्थानकम् । १२५ यत्तत्तथा स्थानं निषदनस्थानमिति प्रक्रम इत्येकोनविंशतितमः १९, तथा उभयो पासिं च णं अरहंताणं भगवंताणं दुवे जक्खा कडयतुडियथंभियभुया चामरुक्खेवं करेंति त्ति कटकानि प्रकोष्ठाभरणविशेषाः त्रुटितानि बाह्वाभरणविशेषाः तैरतिबहत्वेन स्तम्भिताविव स्तम्भितौ भुजौ ययोस्तौ तथा यक्षौ देवाविति विंशतितमः २०, बृहद्वाचनायामनन्तरोक्तमतिशयद्वयं नाधीयते, अतस्तस्यां पूर्वेऽष्टादशैव, अमनोज्ञानां 5 शब्दादीनामपकर्षः अभाव इत्येकोनविंशतितमः १९, मनोज्ञानां प्रादुर्भाव इति विंशतितमः २०, पच्चाहरओ त्ति प्रत्याहरतो व्याकुर्वतो भगवतः हिययगमणीओ त्ति हृदयङ्गमः जोयणनीहारि त्ति योजनातिकामी स्वर इत्येकविंशः २१, अद्धमागहाए त्ति प्राकृतादीनां षण्णां भाषाविशेषाणां मध्ये या मागधी नाम भाषा रसोर्लशौ मागध्याम् [ ] इत्यादिलक्षणवती सा असमाश्रितस्वकीयसमग्रलक्षणाऽर्द्धमागधीत्युच्यते, तया 10 धर्ममाख्याति, तस्या एवातिकोमलत्वादिति द्वाविंशः २२, भासिजमाणीति भगवताऽभिधीयमाना आरियमणारियाणं ति आर्यानार्यदेशोत्पन्नानां द्विपदा मनुष्याश्चतुष्पदा गवादयः मृगा आटव्याः पशवो ग्राम्याः पक्षिणः प्रतीताः सरीसृपा उर:परिसर्पा भुजपरिसपाश्चेति, तेषां किम् ? आत्मन आत्मनः आत्मीयया आत्मीययेत्यर्थः, भाषातया भाषाभावेन परिणमतीति सम्बन्धः, किम्भूताऽसौ 15 भाषा ? इत्याह- हितम् अभ्युदयं शिवं मोक्षं सुखं श्रवणकालोद्भवमानन्दं ददातीति हितशिवसुखदेति त्रयोविंशः २३, पुव्वबद्धवेरे त्ति पूर्वं भवान्तरेऽनादिकाले वा जातिप्रत्ययं बद्धं निकाचितं वैरम् अमित्रभावो यैस्ते तथा, तेऽपि च, आसतामन्ये, देवा वैमानिका असुरा नागाश्च भवनपतिविशेषाः सुवर्णाः शोभनवर्णोपेतत्वाज्ज्योतिष्का यक्ष-राक्षस-किन्नर-किंपुरुषाः व्यन्तरभेदाः गरुडा 20 गरुडलाञ्छनत्वात् सुपर्णकुमारा भवनपतिविशेषाः, गन्धर्वा महोरगाश्च व्यन्तरविशेषा एव, एतेषां द्वन्द्वः, पसंतचित्तमाणसा, प्रशान्तानि शमं गतानि चित्राणि राग-द्वेषाद्यनेकविधविकारयुक्ततया विविधानि मानसानि अन्तःकरणानि येषां ते १. “अत एत् सौ पुंसि मागध्याम् ॥४।२८७॥ रसोर्लशौ ।।४।२८८॥” इति हेमचन्द्रसूरिविरचिते प्राकृतव्याकरणे॥ २. "दयः हे१ विना ॥ ३. मोक्षः सुखं खं० हे१,२ । मोक्षसुखं जे१ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy