SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ [सू० ३३] त्रयस्त्रिंशत्स्थानकम् । १२१ ३१, समासनेऽप्येवं ३२, त्रयस्त्रिंशत्तमा(मी?) सूत्रोक्तैव, रात्निकस्यालपतस्तत्रगत एव आसनादिस्थित एव प्रतिशृणोति, आगत्य हि प्रत्युत्तरं देयमिति शैक्षस्याशातनेति ३३। तेत्तीसं तेत्तीसं भोम त्ति भौमानि नगराकाराणि, विशिष्टस्थानानीत्यन्ये । तथा जया णं सूरिए इत्यादि, इह सूर्यस्य मण्डलयोरन्तरं द्वे द्वे 5 योजनेऽष्टचत्वारिंशच्चैकषष्टिभागाः, एतद्विगुणं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागाः, एतावता हीनं विष्कम्भतः सर्वबाह्यमण्डलाद् द्वितीयं मण्डलं भवति, ततश्च वृत्तक्षेत्रपरिधिगणितन्यायेन परिधितः सप्तदशभिर्योजनैरष्टत्रिंशता चैकषष्टिभागैयूंनं द्वितीयमण्डलं सर्वबाह्यमण्डलाद्भवति, एवं तृतीयमण्डले एतद्विगुणेन हीनं भवति, तथाहि- तद्विष्कम्भत एकादशभिर्योजनैर्नवभिश्चैकषष्टिभागैः पर्यन्तिमाद्धीनं भवति, 10 परिधितस्तु पञ्चत्रिंशता योजनैः पञ्चदशभिश्चैकषष्टिभागैयूंनं भवति, तच्च त्रीणि लक्षाणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्युत्तरे षट्चत्वारिंशच्चैकषष्टिभागा इति, तथा अन्तिममण्डलान्मण्डले मण्डले द्वाभ्यां मुहूर्तस्यैकषष्टिभागाभ्यां दिनवृद्धिर्भवति, तथा च तृतीये मण्डले यदा सूर्यश्चरति तदा द्वादश मुहूर्ताश्चत्वारश्चैकषष्टिभागा मुहूर्तस्य दिनप्रमाणं भवति, तदढे चैकषष्टिभागीकृतेनाष्टषष्ट्यधिकशतत्रयलक्षणेन, स्थूलगणितस्य 15 विवक्षितत्वात् परित्यक्तांशे ३१८२७९ तृतीयमण्डलपरिधौ गुणिते सति एकषष्ट्या च षष्टिगुणितया भागे हृते यल्लभ्यते तत्तृतीयमण्डले चक्षुःस्पर्शप्रमाणं भवति, तच्च द्वात्रिंशत् सहस्राण्येकोत्तराणि ३२००१ अंशानामेकषष्ट्या भागलब्धाश्चैकोनपञ्चाशत् षष्टिभागा योजनस्य ४९ त्रयोविंशतिश्चैकषष्टिभागा योजनषष्टिभागस्य २३ , एतत्तृतीयमण्डले चक्षुःस्पर्शस्य प्रमाणं जम्बूद्वीपप्रज्ञप्त्यामुपलभ्यते, इह तु यदुक्तं त्रयस्त्रिंशत् किञ्चिन्न्यूना, 20 तत्र सातिरेकस्य योजनस्यापि न्यूनसहस्रता विवक्षितेति सम्भाव्यते, चतुर्दशे मण्डले १. “जया णं भंते सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं एगमेगेणं मुहुत्तेणं केवइयं खेत्तं गच्छइ ! गोयमा ! पंच पंच जोयणसहस्साई तिण्णि य चउरुत्तरे जोयणसए इगुणालीसं च सद्विभाए जोयणस्स एगमेगेणं मुहुत्तेणं गच्छइ तया णं इहगयस्स मणूसस्स एगाहिएहिं बतीसाए जोयणसहस्सेहिं एगूणपन्नाए य सट्ठिभाएहिं जोयणस्स सट्ठिभागं च एगसट्टिहा छेत्ता तेवीसाए चुण्णियाभाएहिं सूरिए चक्खुप्फासं हव्वमागच्छइ ।" इति जम्बूद्वीपप्रज्ञप्तौ सप्तमे वक्षस्कारे ॥ २. सातिरेकयोजनस्यापि जे२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy