________________
१२० - आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे [जाव सव्वदुक्खाणं अंतं करेस्संति] ३।
[टी०] अथ त्रयस्त्रिंशत्स्थानकम्, तत्र आय: सम्यग्दर्शनाद्यवाप्तिलक्षणः, तस्य शातनाः खण्डनाः निरुक्तादाशातनाः, तत्र शैक्षः अल्पपर्यायो रात्निकस्य बहुपर्यायस्य
आसन्नम् आसत्त्या यथा रजोऽञ्चलादि तस्य लगति तथा गन्ता भवतीत्येवमाशातना 5 शैक्षस्येत्येवं सर्वत्र १, पुरओ त्ति अग्रतो गन्ता भवति २, सपक्खे त्ति समानपक्षं समपार्वं यथा भवति, समश्रेण्या गच्छतीत्यर्थः ३, ठिच्च त्ति स्थाता आसिता भवति, यावत्करणाद् दशाश्रुतस्कन्धानुसारेणान्या इह द्रष्टव्याः, ताश्चैवमर्थतः- आसन्नं पुरः पार्श्वतः स्थानेन तिम्रो ३ निषदनेन च तिम्रः ३, तथा विचारभूमौ गतयोः पूर्वतरमाचमतः
शैक्षस्याशातना १०, एवं पूर्वं गमनागमनमालोचयतः ११, तथा रात्रौ को जागर्तीति 10 पृष्टे रात्निकेन तद्वचनमप्रतिशृण्वतः १२, रात्निकस्य पूर्वमालपनीयं कंचन अवमस्य
पूर्वतरमालपतः १३, अशनादि लब्धमपरस्य पूर्वमालोचयतः १४, एवमन्यस्योपदर्शयतः १५, एवं निमन्त्रयतः १६, रात्निकमनापृच्छ्यान्यस्मै भक्तादि ददतः १७, स्वयं प्रधानतरं भुञ्जानस्य १८, क्वचित् प्रयोजने व्याहरतो रात्निकस्य वचोऽप्रतिशृण्वतः १९, रात्निकं
प्रति तत्समक्षं वा बृहता शब्देन बहुधा भाषमाणस्य २०, व्याहतेन ‘मस्तकेन वन्दे' 15 इति वक्तव्ये किं भणसीति ब्रुवाणस्य २१, प्रेरयति रात्निके कस्त्वं प्रेरणायामिति वदतः
२२, आर्य ! ग्लानं किं न प्रतिचरसीत्याधुक्ते त्वं किं न तं प्रतिचरसीत्यादि भणतः २३, धर्मं कथयति गुरावन्यमनस्कतां भजतोऽननुमोदयत इत्यर्थः २४, कथयति गुरौ न स्मरसीति वदतः २५, धर्मकथामाच्छिन्दतः २६, भिक्षावेला वर्तते इत्यादिवचनतः
पर्षदं भिन्दानस्य २७, गुरुपर्षदोऽनुत्थितायास्तथैव व्यवस्थिताया धर्मं कथयतः २८, 20 गुरोः संस्तारकं पादेन घट्टयतः २९, गुरोः संस्तारके निषीदतः ३०, उच्चासने निषीदतः
१. स्यैव सर्वत्र जे२ ॥ २. द्रष्टव्या इह जे२ ॥ ३. आसन्नपुरः जे१,२, हे१,२ ॥ ४. च नास्ति जे२ हे१ ॥ ५. प्रवचनसारोद्धारेऽपि द्वितीये वन्दनकद्वारे १२९-१४९ गाथासु त्रयस्त्रिंशदाशातनास्वरूपं विस्तरेण वर्णितमस्ति। तत्र द्वादशी आशातना अप्रतिश्रवणम्, एकोनविंशतितम्याशातनापि अप्रतिश्रवणम्, अतः प्रवचनसारोद्धारटीकायां स्पष्टीकरणमित्थं विहितम्- “इदानीमेकोनविंशतितमीमाह- एवं अप्पडिसुणणे त्ति सूरेः शब्दं कुर्वतोऽप्रतिश्रवणे आशातना, नन्वियं अप्पडिसुणणे त्ति [१२] द्वारे पूर्वव्याख्यातैव किमर्थं पुनर्भण्यते ? इत्यत्राह- नवरमिणं दिवसविसयं ति इदमप्रतिश्रवणं दिवसे सामान्येनोक्तम्, पाश्चात्त्यं तु विलसदन्धकारायां रात्रौ न कोऽपि जाग्रतं सुप्तं वा मां ज्ञास्यतीत्यप्रतिश्रवणमिति द्वयोरनयोर्भेदः १९ ॥११४॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org