________________
११८
आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे १६, संवेगे त्ति संवेगः संसारभयं मोक्षाभिलाषो वा १७, पणिहि त्ति प्रणिधिः माया, सा न कार्येत्यर्थः १८, सुविहि त्ति सुविधिः सदनुष्ठानम् १९, संवरः आश्रवनिरोधः २०, अत्तदोसोवसंहारे त्ति स्वकीयदोषस्य निरोधः २१, सव्वकामविरत्तय त्ति समस्तविषयवैमुख्यम् २२, पच्चक्खाणे त्ति प्रत्याख्यानं मूलगुणविषयम् २३ 5 उत्तरगुणविषयं च २४, विओसग्गे त्ति व्युत्सर्गो द्रव्य-भावभेदभिन्नः २५, अप्पमाये त्ति प्रमादवर्जनम् २६, लवालवे त्ति कालोपलक्षणम्, तेन क्षणे क्षणे सामाचार्य्यनुष्ठानं कार्यम् २७, झाणसंवरजोगे यत्ति ध्यानमेव संवरयोगो ध्यानसंवरयोगः २८, उदए मारणंतिए त्ति मारणान्तिकेऽपि वेदनोदये न क्षोभः कार्यः २९, संगाणं च परिण
त्ति सङ्गानां ज्ञपरिज्ञा-प्रत्याख्यानपरिज्ञाभेदभिन्ना परिज्ञा कार्या ३०, पायच्छित्तकरणे 10 इ य त्ति प्रायश्चित्तकरणं च कार्यम् ३१, आराधना च मरणान्ते मरणरूपोऽन्तो मरणान्तस्तत्र इत्येते द्वात्रिंशद्योगसङ्ग्रहा इति ३२ ।
इन्द्रसूत्रे यावत्करणात् ‘वेणुदेवे वेणुदाली हरिक्ते हरिस्सहे अग्गिसीहे अग्गिमाणवे पुण्णे वसिढे जलकंते जलप्पहे अमियगई अमियवाहणे वेलंबे पहंजणे' इति
दृश्यम्, पुनः यावत्करणात् ‘माहिंदे बंभे लंतए सुक्के सहस्सारे' त्ति द्रष्टव्यम्, 15 इह च षोडशानां व्यन्तरेन्द्राणां षोडशानामेव चाणपण्यिकादीन्द्राणामल्पर्द्धिकत्वेनाविवक्षितत्वादसङ्ख्यातानामपि च चन्द्र-सूर्याणां जातिग्रहणेन द्वयोरेव विवक्षितत्वाद् द्वात्रिंशदिन्द्रा उक्ता इति । कुन्थुनाथस्य द्वात्रिंशदधिकानि द्वात्रिंशत् केवलिशतान्यभूवन् । द्वात्रिंशद्विधं नाट्यमभिनयविषयवस्तुभेदाद्यथा राजप्रश्नकृताभिधानद्वितीयोपाङ्ग इति
सम्भाव्यते, द्वात्रिंशत्पात्रप्रतिबद्धमिति केचित् ॥३२॥ 20 [सू० ३३] [१] तेत्तीसं आसायणातो पण्णत्तातो, तंजहा- सेहे रातिणियस्स
आसन्नं गंता भवति, [आसायणा सेहस्स] १, सेहे राइणियस्स पुरतो गंता भवति, [आसायणा सेहस्स २, सेहे राइणियस्स [स]पक्खं गंता भवति, आसायणा सेहस्स ३, सेहे रातिणियस्स आसन्नं ठिच्चा भवति, आसायणा १. आवश्यकसूत्रस्य चतुर्थेऽध्ययने ‘तेत्तीसाए आसायणाहिं' इति सूत्रस्य हारिभत्र्यां वृत्तावपि विस्तरेण वर्णनमस्ति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |