________________
[सू० ३२]
द्वात्रिंशत्स्थानकम् । - तेसि गं देवाणं अत्थेगतियाणं बत्तीसं सागरोवमाई ठिती पण्णत्ता ५। __ [३] ते णं देवा बत्तीसाए अद्धमासेहिं आणमंति वा पाणमंति वा ऊससंति वा नीससंति वा ११ तेसि णं देवाणं बत्तीसाए वाससहस्सेहिं आहारट्ठे समुप्पजति २॥ __ संतेगतिया भवसिद्धिया जीवा जे बत्तीसाए भवग्गहणेहिं सिज्झिस्संति] 5 जाव सव्वदुक्खाणं अंतं करेस्संति ३।
[टी०] द्वात्रिंशत्स्थानकमपि व्यक्तम्, नवरं युज्यन्ते इति योगा: मनोवाक्कायव्यापाराः ते चेह प्रशस्ता एव विवक्षितास्तेषां शिष्याचार्यगतानामालोचना-निरपलापादिना प्रकारेण सङ्ग्रहणानि सङ्ग्रहाः प्रशस्तयोगसङ्ग्रहाः प्रशस्तयोगसङ्ग्रहनिमित्तत्वादालोचनादय एव तथोच्यन्ते, ते च द्वात्रिंशद्भवन्ति, तदुपदर्शकं श्लोकपञ्चकम् आलोयणेत्यादि, 10 अस्य गमनिका-तत्र आलोयण त्ति मोक्षसाधकयोगसङ्ग्रहाय शिष्येणाचार्यायाऽऽलोचना दातव्या १, निरवलावे त्ति आचार्योऽपि मोक्षसाधकयोगसङ्ग्रहायैव दत्तायामाऽऽलोचनायां निरपलाप: स्यात्, नान्यस्मै कथयेदित्यर्थः २, आवईसु दढधम्मय त्ति प्रशस्तयोगसङ्ग्रहाय साधुनाऽऽपत्सु द्रव्यादिभेदासु दृढधर्मता कार्या, सुतरां तासु दृढधर्मणा भाव्यमित्यर्थः ३, अणिस्सिओवहाणे य त्ति 15 शुभयोगसङ्ग्रहायैवाऽनिश्रितं च तदन्यनिरपेक्षमुपधानं च तपोऽनिश्रितोपधानं परसाहाय्यानपेक्षं तपो विधेयमित्यर्थः ४, सिक्ख त्ति योगसङ्ग्रहाय शिक्षाऽऽसेवितव्या, सा च सूत्रार्थग्रहणरूपा प्रत्युपेक्षाद्यासेवनात्मिका चेति द्विधा ५, निप्पडिकम्मय त्ति तथैव निष्प्रतिकर्मता शरीरस्य विधेया ६, अण्णायय त्ति तपसोऽज्ञातता कार्या, यश:- पूजाद्यर्थित्वेनाऽप्रकाशयद्भिस्तपः कार्यमित्यर्थः ७, अलोभे य त्ति अलोभता 20 विधेया ८, तितिक्ख त्ति तितिक्षा परीषहादिजयः ९, अज्जवे त्ति आर्जवम् ऋजुभावः १०, सुइ त्ति शुचिः सत्यं संयम इत्यर्थः ११, सम्मद्दिट्टि त्ति सम्यग्दृष्टिः सम्यग्दर्शनशुद्धिः १२, समाही य त्ति समाधिश्च चेतःस्वास्थ्यम् १३, आयारे विणओवए त्ति द्वारद्वयं तत्राचारोपगतः स्यात्, न मायां कुर्यादित्यर्थः १४, विनयोपगतो भवेत्, न मानं कुर्यादित्यर्थः १५, धिईमई यत्ति धृतिप्रधाना मतिकृतिमति: अदैन्यम् 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org