SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ ११२ आचार्यश्रीअभयदेवसूरिविरचितटीकासहिते समवायाङ्गसूत्रे ग्लानाप्रतिजागरणेनाऽऽज्ञाविराधनात्, चशब्दात् परेषां चाऽबोधिकः अविद्यमाना बोधिरस्मादिति व्युत्पादनात्, ये हि तदीयं ग्लानाप्रतिचरणमुपलभ्य जिनधर्मपराङ्मुखा भवन्ति तेषामबोधिस्तत्कृतेति स एवम्भूतो महामोहं प्रकरोतीति पञ्चविंशतितमम् २५। जो कहाहिगरणाई संपउंजे पुणो पुणो । 5 सव्वतित्थाण भेयाय महामोहं पकुव्वति ॥२६॥ यः कथा वाक्यप्रबन्धः, शास्त्रमित्यर्थः, तद्रूपाण्यधिकरणानि कथाधिकरणानि कौटिल्यशास्त्रादीनि प्राण्युपमर्दनप्रवर्तकत्वेन तेषामात्मनो दुर्गतावधिकारित्वकरणात्, कथया वा क्षेत्राणि कृषत, गा नस्तयत' इत्यादिकया अधिकरणानि तथाविधप्रवृत्तिरूपाणि, अथवा कथा राजकथादिका अधिकरणानि च यन्त्रादीनि 10 कलहा वा कथाधिकरणानि तानि सम्प्रयुङ्क्ते पुनः पुनः, एवं सर्वतीर्थानां भेदाय संसारसागरतरणकारणत्वात् तीर्थानि ज्ञानादीनि तेषां सर्वथा नाशाय प्रवर्त्तमानः स महामोहं प्रकरोतीति षड्विंशतितमम् २६ । जे य आहम्मिए जोए संपउंजे पुणो पुणो । साहाहेउं सहीहेडं महामोहं पकुव्वति ॥२७॥ 15 कण्ठ्यम्, नवरम् अधार्मिका योगा निमित्त-वशीकरणादिप्रयोगाः, किमर्थम् ? श्लाघाहेतोः, सखिहेतोः मित्रनिमित्तमित्यर्थः, इति सप्तविंशतितमम् २७ । जे य माणुस्सए भोए अदुवा पारलोइए । तेऽतिप्पयंतो आसयति महामोहं पकुव्वति ॥२८॥ यश्च मानुष्यकान् भोगान् अथवा पारलौकिकान् ते त्ति विभक्तिपरिणामात्तैस्तेषु 20 वा अतृप्यन् तृप्तिमगच्छन् आस्वदते अभिलषति आश्रयति वा स महामोहं प्रकरोतीति अष्टविंशतितमम् २८।। इड्डी जुती जसो वण्णो देवाणं बलवीरियं । तेसिं अवण्णिम बाले महामोहं पकुव्वति ॥२९॥ ऋद्धिः विमानादिसम्पत्, द्युतिः शरीराभरणदीप्तिः, यश: कीर्तिः, वर्णः शुक्लादिः 25 शरीरसम्बन्धी, देवानां वैमानिकादीनां बलं शारीरं वीर्यं जीवप्रभवम्, अस्तीत्यध्याहारः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001143
Book TitleAgam 04 Ang 04 Samvayanga Sutram Tika
Original Sutra AuthorN/A
AuthorAbhaydevsuri, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2005
Total Pages566
LanguagePrakrit, Sanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, Dictionary, G000, G015, & agam_samvayang
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy