________________
10
[सू० ३०]
त्रिंशत्स्थानकम् । ___ आचार्यादीन् श्रुतदान-ग्लानावस्थाप्रतिचरणादिभिस्तर्पितवतः उपकृतवतः सम्यक् न प्रतितपयति विनयाहारोपध्यादिभिर्न प्रत्युपकरोति, तथा अप्रतिपूजको न पूजाकारी, तथा स्तब्धो मानवान् स महामोहं प्रकरोतीति द्वाविंशतितमम् २२ ।
अबहुस्सुए य जे केइ सुएण पविकंथई । सज्झायवायं वयति महामोहं पकुव्वति ॥२३॥
अबहुश्रुतश्च यः कश्चित् श्रुतेन प्रविकत्थते आत्मानं श्लाघते श्रुतवानहमनुयोगधरोऽहमित्येवम्, अथवा कस्मिंश्चित् ‘स त्वमनुयोगाचार्यो वाचको वा' इति पृच्छति प्रतिभणति- आमम्, स्वाध्यायवादं वदति विशुद्धपाठकोऽहमित्यादिकं यः स महामोहं श्रुतालाभहेतुं प्रकरोतीति त्रयोविंशतितमम् २३ ।
अतवस्सिए य जे केइ तवेण पविकंथइ । । सव्वलोयपरे तेणे महामोहं पकुव्वति ॥२४॥ सुगमम्, नवरं सर्वलोकात् सर्वजनात् सकाशात् परः प्रकृष्टः स्तेनः चौरो भावचौरत्वात् महामोहम् अतपस्विताहेतुं प्रकरोतीति चतुर्विंशतितमम् २४ ।
साहारणट्ठा जे केइ गिलाणम्मि उवट्ठिए ।। पभू ण कुव्वई किच्चं मज्झं पि से न कुव्वति ॥ सढे नियडिपण्णाणे कलुसाउलचेयसे । अप्पणो य अबोहीए महामोहं पकुव्वति ॥२५॥
साधारणार्थमुपकारार्थं यः कश्चिदाचार्यादिग्लाने रोगवति उपस्थिते प्रत्यासन्नीभूते प्रभुः समर्थ उपदेशेनौषधादिदानेन च स्वतोऽन्यतश्चोपकारे न करोति कृत्यमुपेक्षते 20 इत्यर्थः, केनाभिप्रायेणेत्याह- ममाप्येष न करोति किंचनापि कृत्यं समर्थोऽपि सन्निति द्वेषेण, असमर्थो वाऽयं बालत्वादिना, किं कृतेनास्य ? पुनरुपकर्तुमशक्तत्वादिति लोभेनेति, शठः कैतवयुक्तः शक्तिलोपनात्, निकृति: माया तद्विषये प्रज्ञानं यस्य स तथा, ग्लानः प्रतिचरणीयो मा भवत्विति ग्लानवेषमहं करोमीति विकल्पवानित्यर्थः, अत एव कलुषाकुलचेताः आत्मनश्चाबोधिको भवान्तराप्राप्तव्यजिनधर्मको 25
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org